________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरेन्द्रप्रभसूरिनिर्मितः स्वोपज्ञविवरणसमेतः
अलङ्कारमहोदधिः।
आनन्दकपदं यस्य प्रकाशो यत् प्रकाशवत् । चकास्ति विश्वतस्तस्मै परस्मै महसे नमः ॥१॥ जयन्तु कल्पद्रुमजेत्रविक्रमा गुरुक्रमाम्भोरुहरेणवश्विरम् । इहैव मर्त्यव्यतिवर्ति वैबुधं पदं तदारोप्यत मादृशोऽपि यैः ॥२॥ नन्दन्तु सौजन्यसुधापयोधयः किमप्यपूर्वस्थितयो महाशयाः । गुणोघरत्नानि तरन्ति येप्वहो ! नि म मञ्जन्ति तु दोषदारवः ॥३॥ गुणावदातेष्वपि दोषदृष्टयो न निन्दनीयाः खलु ते खला अपि । दूरेण दोषानपहाय यद्भयान्मुहुर्गुणेष्वेव जनः प्रवर्त्तते । ४॥ यदि वा दुर्जनः कश्चिन्नास्त्येव विमलात्मनाम् ।
ज्वलितोऽपि दहत्यग्निर्न नाम क्वचिदभ्रकम् ॥५॥ शिष्यो हर्षपुरीयगच्छसवितुः श्रीमन्मुनीन्द्रप्रभो
देवानन्दमुनीन्द्रपाणिकमलोन्मीलत्प्रतिष्ठोदयः । श्रीदेवप्रभसूरिवाङ्मयमहाभैषज्यशाम्यन्मन
स्तन्द्रः श्रीनरचन्द्रसूरिश्वनीचन्द्रश्चिरं नन्दतात् ॥ ६ ॥ १ व. ॐ नमः सरस्वत्यै आ०। २ प. रहसे । ३ प. तदोप्यत | ४ प. निर्नान । ५ अ. नींदुप्रभो दे०। ६ व. ०प्रभुसू० ।
For Private And Personal Use Only