________________
Shri Mahavir Jain Aradhana Kendra
आचा०
॥ ७१ ॥
www.kobatirth.org
एम जाणवु विचित्र कर्मना उदद्यथी क्रर्मनुं स्वरुप न जाणनारो संसारी स्पर्शादि विरुव रुप अनेक जुदी जुदी योनियोमा विपाकथी एटले फळरुपे भोगवे छे.. छे के
तैः कर्मभिः स जीवो विवशः संसार चक्रमुपयाति । द्रव्यक्षेत्राद्धाभावभिन्न मावर्त्तते बहुशः ॥ १ ॥ नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुष्य योनिषु च । पर्यटति घटियन्त्रवदात्मा बिभ्रच्छरीराणि ॥२॥ सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम्। तिर्यक्षु भयक्षु नृड्वधादि दुःखं सुखं चाल्पम् ॥ ३ ॥ सुख दुःखे मनुजानां मनः शरीराश्रये बहु विकल्पे । सुखमेव हि देवानां दुःखं स्वल्पं च मनसि भवम् ॥४॥ कर्मानुभावदुःखित एवं मोहान्धकार गहनवति । अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे ॥ ५ ॥ दुःखप्रतिक्रियार्थ सुखाभिलाषाच्च पुनरपि तु जीवः । प्राणिवधादीन् दोषानधितिष्ठति मोहसंछन्नः ॥ ६ ॥ भाति ततो बहुविधमन्यत्पुनरपि नवं सुबहु कर्म । तेनाथ पव्यते पुनरग्नेरग्निं प्रविश्येव ॥ ७ ॥ एवं कर्माणि पुनः पुनः स बध्नंस्तथैव मुञ्चंश्च । सुखकामो बहुदुःखं संसारमनादिकं भ्रमति ॥ ८ ॥ एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् । संसार महत्त्वाधार्मिक-स्वदुष्कर्म बाहुल्यैः ॥ ९ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
॥ ७१ ॥