________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्प्राप्तिविमर्श
१०४३ एवमित्यनेन प्रकारेण प्रकारश्चाहितविशेषसेवनाद्बहुरूपः । तथा च तदेवैकं द्रव्यं तमेव चै स्वकार्यभूतमन्यतमं दोषं प्रकृत्यादीनां नानाविधविशेषापेक्षया कदाचिल्लाघवेन कोपयति कदाचिद्रौक्ष्येण । कदाचित् काठिन्येन, कदाचिदजीर्णन, कदाचिद्दोषान्तरप्रकोपेण, कदाचिच्छैत्येन, कदाचिदन्येन वा यथासम्भवगुणविशेषेणेति । तथा विश्चिद्रव्यमूर्ध्वभागिकं भवति तदन्यथा दोषं कोपयति । किञ्चिदधोभागिकं तदन्यथा अन्यदुभयभागिकं तद्रूपान्तरेण । एतस्माच्च कार्यविशेषादेवं दुष्टो दोष इति ज्ञायते-न हि मरिचस्य रौक्ष्येण यो दुष्टो वायुर्यश्च तस्यैव लाघवेन तावेकरूपौ भवितुमर्हतः । रोक्ष्येण हि कुपितो रौक्ष्यमेवात्मगुणमुपबृंहयंस्तदनुगुणान्येव कार्याणि काठिन्योपशोषणादीनि कुरुते। लाघवेन च कुपितः पवनो रूपमनुवर्धयन् लाघवादीन्येव प्रदर्शयति । एवं सर्वमप्यूह्यम् । संमोह, भयाद्विस्तरेण न प्रतन्यते । तथा च इदमेव तावदृश्यताम् । इह हि प्राभअनप्रकोपकारणं तिक्तकटुकषायरूक्षलघुशीतविष्टम्भिविरूढकतृणधान्यादि बहुविधं निर्दिष्टम् । यत्र यस्तिक्तरसेन द्रव्येण कोपः स एव किं कटुकेनान्येन वा विरूढकादिना भवति । द्रव्याणामनेककारणारब्धत्वात् । तथा योऽपि पटोलात कोपः स एव न त्रायन्तीवालकादिप्रत्ययतामुपयाति । न चैवमेकं द्रव्यमेकस्यैव दोषस्यायतन भवति । यतस्तद्रव्यमनुचितेन मात्रादिविशेषेण प्रयुक्तं सद्यथोक्तेन गुणेन किञ्चित् कोपयति । तथा गुणान्तरेण । सदृशेण विलक्षणेन वा। प्रभावादिभिर्वातमेव दोषान्तरमेव वा प्रकोपयितं किं बन्धुवर्गेण कारितशपथम् । तेनैकस्मिन्नपि दोघे कुपिते व्याधिकारिणि चान्यो दोषो हेत्वाद्यपेक्षं कदाचिन्मात्रया तस्य व्याधेः समुत्थानतामप्राप्तोऽपि विकारविशेषमापन्नो भवत्येव । तथा च तन्त्रेषु दृश्यते । ज्वरचिकित्सिते तावत्
'कपायपानपथ्यान्नैर्दशाह इति लविते । सर्पिर्दद्यात् कफे मन्दे वातपित्तोत्तरे ज्वरे । पक्केषु दोपेष्वमृतं तद्विषोपममन्यथा । दशाहे स्यादतीतेऽपि बरोपद्ववृद्धिकृत् ।
लङ्घनादिक्रमं तत्र कुर्यादाकफसंक्षयात्' ॥ (अं. सं. चि. अं. १ ) 'देहधात्वबलत्वाच्च ज्वरो जीर्णोऽनुवर्तते। रूक्षं हि तेजो ज्वरकृत् तेजसा रक्षितस्य च । वमनस्वेदकालाम्बुकषायलघुभोजनैः। यः स्यादतिबलोधातुः सहचारी सदागतिः ॥
(अं. सं. चि. अं.२) इत्यादि । इदमेव तावद्विचार्यतां किं त्रिदोषजमेव ज्वरमधिकृत्येतदुच्यते । आहोस्वित्सामान्येन । यदि त्रिदोषजाधिकारेणेत्युच्यते तन्न । आप्रकरणमविशेषपाठाद्यथोक्तासम्भवाच्च । अथवा सामान्येन । तत्रैकदोषाभिमतरोगपक्षे कथं यथोक्तसम्भवः ? यतो ज्वरकारणे कफे वमनादिभिः क्षीणे तत्कार्यञ्च ज्वरोऽपि कथं न क्षीयते ।अनपचितोऽपि वा किमिति स्वकारणदोषविपरीतदोषान्तरकारणतामेकदैवासादयति । उक्तं चैतत्
'प्रयोगः शमये व्याधि योऽन्यमन्यमुदीरयेत् । नाऽसौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत् ॥'
(च. नि. ८-२३ अ. सं. सू २१ इति) तस्मान्नापि क्रियापादहानौ व्यामूढकचिकित्सकविषये चैतदुच्यते अनवस्थाप्रसङ्गात् । एवमेकेदोषजेष्वपि रोगेपु दोषान्तरं सम्प्राप्त्यभिमुखं भवत्येव कालादिकं सहायमासाद्य नानाविधविकारकरणाय विज़म्भत इति । न चानेकमपि द्रव्यमेकेनैव रूपेणैकस्य दोषस्य कारणं भवति । तस्मादनेन प्रकारेण दुष्टो दोष इति ज्ञायते। कथमनेन दुष्टेनाऽपि सता व्याधिरारभ्यत इति विकल्प्यते। तस्माद् दुष्टो दोषो दोषकारण विशेषवशादन्यथा चान्यथा च विकारहेतुतामनुगृह्णाति । तथा स एव दोषः सकलं शरीरमनुसरन् विशिष्टभेव रोगमभिनिवर्त्तयति । एकत्रावस्थितोऽपि विशिष्टदोषान्तरेण बिहतप्रसरोऽन्यं दोषान्तरमनुगतोन्यमित्येवमादिनैकोऽपि दोषो नानाविधविकार करः सम्पद्यते येन स एवं वायुः कदाचित् ज्वरमभिनिवर्तयति कदाचित्कुष्ठादिकमिति । एषा सम्प्राप्ती रोगविशेषाधिगमे
For Private and Personal Use Only