________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४२
विकृतिविज्ञान दुष्टिः पुनः ऋतूनां यथा स्वलक्षणहीनातिविपर्ययेग या दुष्टिनिंदानसेवाभिश्च सा च द्विधा दुष्टिरेकशी द्विशः सर्वश्च । वृद्धौ क्षये च । रजस्तमसोश्चैवं दुष्टिरेको द्विशश्च । तत्र शारीरदोषाणां सांसर्गिकी दुष्टिविधा प्रकृतिसमविषमसमवायाभ्यां भवति । तत्र समसमवायात् षट् पञ्चाशत् , एकशः षडिति, वृद्धिक्षयोषिष्टिधा। विषमसमवायात् तु नियमो नास्ति । एवं दुष्टो स्वभावाद् यस्मिन् व्याधौ यावतो दुष्टिस्तावती संख्या तस्य व्याधेः सर्वश इति सत्तानुकूला संख्या व्यापारविशेषः। आगन्तुजेष्वपि संख्या सत्तानुकूला व्यापारभेद एव । दोषाणां तथैव दुष्टानां द्विशो बहूनाञ्च प्राधान्यमप्राधान्यञ्च व्यापारविशेषः। प्रकारश्च व्यापारभेदः। निदानस्वभावेन यादृशस्वभावो दोषो भवति स तस्य प्रकारः। यावतांशेन यस्य दोषस्य चयप्रकोपौ तत्कल्पना च व्यापारभेदः। बलकालश्च दोषाणां व्यापारभेदः। इत्येते दोषाणां दृष्यसंयोगे स्वस्वक्रियेव व्यापारास्तानाह-सा संख्याप्राधान्यविधिविकल्पबलकालविशेषैर्भिद्यते । इति । स सत्तानुकूला क्रियासम्प्राप्तिः सङ्ख्यादिभिः पञ्चभिर्भेदर्भिद्यते ।
चकृपाणिदत्त-यद्यपि सम्प्राप्त्यनन्तरं लिङ्गप्रादुर्भावः, तथापि सम्प्राप्तैर्निरूपणं प्रति अल्पप्रयोजनाच्छेषतः सम्प्राप्तिमाह-सम्प्राप्तिरित्यादि। जातिर्जन्म, सम्प्राप्त्या गतिजातिशब्दै. र्योऽर्थोऽभिधीयते व्याधेः, सा सम्प्राप्तिरित्यर्थः । अत्रैके व्याधिजन्ममात्रमन्त्यकारणव्यापारजन्यं सम्प्राप्तिमाहुः । इयञ्च सम्प्राप्तिर्यद्यपि निदानादिवव्याधिबोधिका न भवति, तथापि नानुत्पन्नस्य व्याधेलक्षणं भवतीति कृत्वा उत्पत्तेाध्युपलम्भकत्वं वर्णयन्ति । एतच्चान्ये न मन्यन्ते । यतः नवं सति सम्प्राप्तितः कश्चिद् विशेषो व्याधेरधिगम्यते, न चाऽयं नियमः यदुत्पन्न एव परं व्याधिरुपलभ्यते । यतः निदानपूर्वरूपाभ्यामनुत्पन्नो व्याधि वित्वेन बुध्यते । तस्माद्वयाधिजनकदोषव्यापारविशेषयुक्तं व्याविजन्मेह सम्प्राप्तिः। पर्याये 'आगतिः' इत्युक्तम् । आगतिहिं उत्पादकारणस्य व्याधिजननपर्यन्तं गमनम् । इयञ्च सम्प्राप्तिाधिविशेषं बोधयत्येव, यथा-ज्वरे ‘स यदा प्रकुपितः प्रविश्यामाशयम्' इत्यारभ्य 'तदाज्वरमभिनिवर्तयति' इत्यन्तेन या सम्प्राप्तिरुच्यते तथा ज्वरस्यामाशयदूषकत्वमग्न्युपधातकरसदूषकत्वादयो धर्माः प्रतीयन्ते । न च वाच्यम्-दोषाणामयमामाशयदूधकत्वादिधर्मः, ततश्च कारणधर्माणां निदानग्रहणेनैव भवतीति। यतः कारणधर्मोऽप्ययं व्याधिजनकदोषव्यापाररूपः सम्प्राप्तिशब्देन विशेषबोधनार्थ पृथक् कृत्वोच्यते । यथा-लिङ्गत्वाविशेषेऽपि भाविव्याधिबोधकत्वविशेषात् पूर्वरूपं पृथगुच्यते । अतएव वाग्भटेऽप्येवमेव सम्प्राप्तिलक्षणमुक्तम्यथा दुष्टेन दोषेण यथा चानुविसर्पता । निर्वृत्तिरामयस्यासौ सम्प्राप्तिर्जातिरागतिः ।। इति ।
सम्प्रति सम्प्राप्तः प्रतिव्याधिव्यक्तिभिन्नायाः सर्वत्र व्याधौ तत्प्रयोजनाभावान्न भेदो वक्तव्या, यस्तूपयुक्तो भवति सम्प्राप्तिविशेषः, तमभिधास्यत्येव, स यदा प्रकुपितः प्रविश्यामाशयम् इत्यादिना ग्रन्थेन, अतः सर्वसम्प्राप्त्यनभिधानात् न्यूनतादोषपरिहारार्थं सर्वव्याधिसाधारणान् सम्प्राप्तिभेदानाह-सा संख्येत्यादि । सा सम्प्राप्तिः संख्यादिभिभिद्यते इति संख्यादिभिन्ने व्याधौ भिन्न भवतीत्यर्थः, यतः न भिन्नानां भावानाममिन्नोत्पत्तिर्भवति, किं तहिं भिन्नैव भवति, यद्यपि च प्रतिव्याधिव्यक्तयपि सम्प्राप्तिभिन्नैव भवति, तथापि स भेदः सम्प्राप्तेरिह प्रयोजनाभावान्नोच्यते; यतः संख्याप्राधान्यविध्यादितुल्यासु ज्वरव्यक्तिषु एक रूपनिदानलिङ्गचिकित्सितासु भेदप्रतिपादने न किञ्चित् प्रयोजनमस्ति, संख्यादिभिन्ने तु जरादौ निदानलिङ्गचिकित्साभेदोऽस्ति, अतः संख्यादिभेदजनिकायाः सम्प्राप्त दकथनमुचितमेव ।
इन्दु-अथ कदाचिन्निदानादीनि साधारणत्वाव्यामोहादन्यतोऽपि वा निमित्तादातङ्कस्य स्वरूपमसमथितानि प्रदर्शयितुं ततः सम्प्राप्त्या व्याधिविशेषं भिषगवगच्छेत् । अथ का पुनरियं सम्प्राप्तिर्नाम भवतीति या हि जनानां पद्धतिरिव गदानां निदानादिभिरधिगतानामपि सर्वेण प्रकारेण स्वरूपनिःशेषनिराकाङक्षतामावहति । इयमुच्यते-एवं दुष्टोदोषस्तेन चैवमारग्धो व्याधि इत्यादिना ।
For Private and Personal Use Only