________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४४
विकृतिविज्ञान
हेतुः। यस्माद्यदैवं ज्ञायते यथाऽनेन निदानविशेषेण यो दोषः कुपितः स च कारणवशादस्मिन् देहेस्वत एवं व्यापारोऽनेनानुगतश्च वर्तते । एवं विधश्चास्य रोगविशेषस्य सम्प्राप्तिविशेषः प्रदर्शितस्तदावश्य. मेवाऽधिगम्यते, अयं रोग उत्पन्न इति । एतानि निदानादीनि पञ्च परस्परसमन्वितानि व्याधिविशेपाधिगमने निराकाङ्क्षतामनुबध्नन्ति ।।
विजय रक्षित-नानाविधा हि दोषाणां दुष्टिः । प्राकृती वैकृती वा अनुबन्ध्यरूपा अनुबन्धरूपा वा, एकशो द्विशो वा समस्ता वा, रौक्ष्यादिभिः सर्वैर्भावैरल्पैर्वा एवमादिदुष्टिदुष्टेन दोषेण या आमयस्य रोगस्य निर्वृत्तिरुत्पत्तिः सा सम्प्राप्तिरुच्यते । यथा चानुविसर्पतेति। अनेकधा दोषाणां विसर्पणं गतिरूवा॑धस्तिर्यगादिभेदेन तथा विसर्पता । सम्प्राप्तिपर्यायावाह शास्त्रे व्यवहारार्थ लक्षणार्थ च जातिरागतिरिति । जात्यादिभिः शब्दोऽभिधीयते सा सम्प्राप्तिरिति । जातिरागाति जन्मापि ज्ञानकारणम् , अजातस्य ज्ञानाभावात् । इत्याह भट्टारहरिचद्रः। एतेनैतदुक्तं भवति-न हि निदानादिवद्वोधकत्वेन ज्ञानकारणत्वं किन्तु बोधविषयत्वेन । तन्न । इत्यन्ये, आलोकचक्षुरादेरिव एवं विधसम्प्राप्तिश्चिकित्सायामनुपयोगात्। न चास्ति नियमो जातमेव विज्ञायत इति, अजातस्य व्याधेनिंदानपूर्वरूपाभ्यां वृष्टयादेरिव मेघादिना शायमानत्वात् । अथ जातमिति जन्मावच्छिन्नमुच्यते, वृष्टयादिकं च भविष्यजन्मावच्छिन्नमेव, यस्य तु कालत्रयेऽपि जन्म नास्ति तन्न ज्ञायत एव; तथाऽपि न व्याधिजन्म सम्प्राप्तिः, जन्मादालोकाच्चक्षुरादेऽपि वाच्यत्वायत्तः, तैरपि विना ज्ञानाभावात् । तस्माद्दोपेतिकर्तव्यतोपलक्षितं व्याधिजन्मसम्प्राप्तिः न तु केवलं जन्मेति भट्टारहरिचन्द्राभिप्रायः। वाग्भटेनाऽपि 'यथा दुष्टन इत्यादि वदता विशिष्टमेव व्याधिजन्मसम्प्राप्तिरुक्ताः, तथा च सति क्रियाविशेषो लभ्यते; यथा-ज्वरे आमाशयदूषणाग्निहननादिबोधे लङ्गनपाचनस्वेदादिकरणमिति । सम्प्राप्तिश्चैवं विध यद्यपि दोषाणामवान्तरव्यापारत्वेन दोषग्रहणेनैव प्राप्यते तथाऽपि चिकित्साविशेषार्थमेव पृथक क्रियते, यथा--ज्ञापकत्वाविशेषेऽपि पूर्वरूपमेव रूपात् पृथगिति । तस्माद्दोषेतिकर्तव्यतोपलक्षितं व्याधिजन्म सम्प्राप्तिरित्येव लक्षणम् ॥ ___ अरुणदत्त-येन प्रकारेण दुष्टः-कुपितो, वाताद्यन्यतमो दोषो यथादुष्टः, तेन यथा दुष्टन दोषेण यथाचानुविसर्पता-देहमनुधावता सन्निवेशविशेषेण गच्छता, प्रत्यामयं वा निवृत्तिः-निष्पत्तिरुद्भव इति यावत्, निर्दिष्टा सा सम्प्राप्तिः। सा च जातिरागतिश्च कथ्यते । यथा ज्वर स्य-'मलास्तत्र (हृ. नि. अ. २।३ ) इत्यादि लक्षणलक्षिता। तत्र तत्र मलानामाशयप्रवेशनेन, तथाऽऽमानुगमनेन, तथा स्रोतोरोधेन, तथा पक्तिस्थानाज्ज्वलननिरसनेन, तथा तेनैव जाठरेण वह्निना तेषामभिसर्पगेन, तथा सकलदेहतापेन, गात्रं चात्युष्णं कुर्वता, एवं विधया सम्प्राप्त्या ज्वरोऽयमिति निश्चीयते। एवं रक्तपित्तादिष्वपि चिन्त्या सम्प्राप्तिः॥
हेमाद्रि-सम्प्राप्ति लक्षणमाह-यथा दुष्टेनेति । यथा येन प्रकारेण निवृत्तिः असौ प्रकारः सम्प्राप्तिः । स च प्रकारो दुष्टत्वेन (सं) चलितत्वेन च । रूपहानिर्वा रूपवृद्धिा रूपान्तरं वेत्यादि दुष्टत्वप्रकारः। संचलितत्वेन वा वेगेन वा मार्गान्तरेण वा गतिरित्यादि सञ्चलितत्वप्रकारः सम्प्राप्तेः पर्यायौ जातिरागतिश्च ।
गंगाधर कविराज ने-सम्प्राप्तिर्जातिरागतिदित्यनान्तरं व्याधे : सा संख्याप्राधान्यविधिविकल्पबलकालविशेषैभिंद्यते ॥ नामक चरक निदानस्थान अध्याय १ के पञ्चमसूत्र की व्याख्या करते हुए निम्न विचार सम्प्राप्तिपरक प्रकट किए हैं____-उपशय पूर्वरूप में प्रयुक्त किया जाने पर भविष्यत्कालीन व्याधि का ज्ञान देता है। व्याधि के उत्पन्न हो जाने पर प्रयुक्त करने पर वर्तमान व्याधि का बोध कराता है। परन्तु जायमान (उत्पन्न होने की क्रिया में संलग्न) व्याधि का कौन ज्ञान कराता है ? बोध का कोई साधन है ? है भी या नहीं है ? और यदि उसका ज्ञान होता भी है तो कब
For Private and Personal Use Only