________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१० लिङ्गानुशासनम् । प्रकृतेलिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित् । प्रकृतिहरीतक्यादिर्न लिङ्गमतिवर्तते ॥ वचनं तु खलतिकादिर्बहात्येऽति पूर्वपदभूता। स्त्रीपुंनपुंसकानां सह वचने स्यात्परं लिङ्गम् ॥ १३६ नान्ता संख्या उतिर्युष्मदस्मच्च स्युरलिङ्गकाः । पदं वाक्यमव्ययं चेत्यसंख्यं च तद्वहुलम् ॥ १३७
निः शेषनामलिङ्गानुशासनान्यभिसमीक्ष्य संक्षेपात् । आचार्यहेमचन्द्रः समभदनुशासनानि लिङ्गानाम् ॥
१३८
इत्याचार्यश्रीहेमचन्द्रविरचितं लिङ्गानुशासनं समाप्तम् ॥
द्रव्योपाधिः--दण्डी दण्डिनी दण्डि ! क्रियोपाधिः---पाचकः पाचिका पाचकम्। इत्यादि । अस्त्रीति किम् । धवनाम्नो योगात्तद्भार्यायामध्यारोपेऽप्याश्रयलिङ्गतैव प्रष्ठस्य भार्या स एवायमित्यभेदोपचारेऽपि प्रष्ठी । एवं वरुणानी इन्द्रानी इत्यादयः.
१. यथा--द्रखा कुटी कुटीरः. २. हरीतक्याः फलानि हरीतक्यः. ३. खलतिकस्यादूरभवानि वनानि खलतिकं वनानि. ४, बकुर्था पूर्वपदभूता प्रकृतिर्वचनं नात्येति । यथा-पञ्चालाः कुरवः. ५. स्त्रीपुंसयोः पुंलिङ्गं यथा-स च शाटी च तौ । स्त्रीनपुंसकयोर्नपुंसकम् । पुनपुंसकयोनपुंसकम् । स्त्रीपुंनपुंसकानां नपुंसकम् ॥
For Private and Personal Use Only