________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः ॥
अभिधानसंग्रहः।
. (१०) श्रीहेमचन्द्राचार्यविरचितं लिङ्गानुशासनम्।
'पुंलिक केटणथपभमयरषसस्वन्तमिमनलौ किश्तिब् ।
ननौ घघौ दः किर्भावे खोऽकर्तरि च कः स्यात् ॥ हैस्तस्तनौष्ठनखदन्तकपोलगुल्फकेशाध्वगुच्छदिवसर्तुपतगृहाणाम् । निर्यासनाकरसकण्ठकुठारकोष्ठहैमारिवर्षविषबोलरचाशनीनाम् ॥ श्वेतप्लवात्मगुरुजासिकफाभ्रपङ्कमन्यत्विषां जलधिशेवधिदेहभाजाम् ।
मानदुमाद्रिविषयाशुगशोणमासधान्याध्वराग्निमरुतां सभिदां तु नाम ॥ ३ बोंऽच्छदेऽहिर्वप्रे त्रीह्यग्न्योर्हायनबर्हिषौ । मस्तुः सक्तौ स्फटिकेच्छो नीलमित्रौ मणीनयोः ॥ ४ कोणेऽनश्चषके कोशस्तलस्तालचपेटयोः । अनातोये घनो भूग्नि दारप्राणासुवल्वजाः ॥ ५ कान्तश्चन्द्रार्कनामायःपरो यानार्थतो युगः । यश्च स्यादसमाहारे द्वन्द्वोऽश्ववडवाविति ॥ ६
वाकोत्तरा नक्तकरल्लकाङ्का न्युडोत्तरा सङ्गतरङ्गरगाः।
परागपूगौ सृगमस्तुलुङ्गकुडङ्गकालिङ्गतमङ्गमङ्गाः ॥ ___१. वक्ष्यमाणं विशेषविधानमन्तरा पुंलिङ्गं स्यादित्यन्वयः. २. अकारान्तेषु कोपधा आनकवराटकादयः, टोपधा विटकरहाटादयः, णोपधा गुणक्षणादयः, थोपधा निशीथोपस्थादयः, पोपधाः क्षुपकल्पादयः, भोपधा दर्मनिकुम्भादयः, मोपधा गोधूमडिण्डिमादयः, योपधा लयतण्डुलीयादयः, रोपधाः कडंगरकुटरादयः, षोपधा गवाक्षघोषादयः, सोपधाः कर्पासहंसादयः, सकारान्ताः पुरुदंशोदमूनःप्रभृतयः, नकारान्ता ग्रावसुपर्वादयः, उकारान्तास्तकुंधात्वादयः, अन्तान्ताः सीमन्तपर्यन्तदिष्टान्तसिद्धान्तादयः, इमन्प्रत्ययान्ताः प्रथिमम्रदिमद्रढिमादयः, अल्()प्रत्ययान्ताः प्रभवनियमादयः, कि(इ)प्रत्ययान्ताः पनिप्रभृतयः, स्तिष्प्रत्ययान्ताः पचतिभवत्यादयः, नपत्ययान्ताः यतस्वप्नप्रभृतयः, नङ्प्रत्ययान्ता विश्वप्रश्नप्रभृतयः, घप्रत्ययान्ताः प्रच्छदोरच्छदप्रभृतयः, घप्रत्ययान्ताः पादरोगप्रभृतयः, दा(घु)संशकाद्विहितकिप्रत्ययान्ता आदिव्याधिप्रभृतयः, भावार्थकखप्रत्ययान्ता आशितंभवप्रभृतयः, कर्तृभिन्नार्थककप्रत्ययान्ता आखूत्यविघ्नप्रभृतयः. ३. सभेदानां हस्तादीनां निर्यास्यादीनां श्वेतादीनां जलध्यादीनां मानादीनां च नाम पुंलिङ्गं स्यादित्यन्वयः. ४. निर्यासनाम गुग्गुलुः श्रीवेष्ट इत्यादि. ५. रसनाम रसाः शृङ्गारादयस्तन्नाम. ६. किराततिक्तौ हैमश्च काण्डतिक्तः किरातकः, ७. श्वेतः कपर्दस्तन्नाम. ८. चन्द्रकान्तः सूर्यकान्तः अयस्कान्त इत्यादि. ९. इतः परं स्वरान्तव्यञ्जनान्तक्रमेण शब्दानुदाहरिष्यन्ते. तत्र ककारोपान्त्यादिक्रमेणाकारान्ता उदाद्वियन्ते. अनुवाकयुवाकसूक्तवाकादयः. १०. खान्तः. ११. गान्ताः. १२. तमङ्ग इन्द्रकोशः. १३. मङ्गः धर्मः, नौशिरश्च.
For Private and Personal Use Only