________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ धान्यकाण्डः। कुलत्थे तु कालवृन्तस्ताम्रवृन्ते कुलस्थिका । आढक्यां तुवरी वर्णा स्यात्कुल्माषे तु यावकः ॥ ३८९ नीवारस्तु वनव्रीहिः श्यामाके श्यामकः समौ । कङ्गौ तु कङ्गुनी कङ्गुः प्रियङ्गी पीततन्दुला ॥ ३९० सा कृष्णा मधुका रक्ता शोधिता मुशटी शिता | पीतमाधव्य धोद्राले कोद्रवः कोरदूषकः ॥ ३९१ चीन के तु काककऑर्यवनाले तु योनलः । जूर्णाद्वयो देवधान्यं जोर्गाला बीजपुष्पिका ॥ ३९२ शणे भङ्गा मातुलानी स्यादुमात्रामातसी । गवेधुकायां गवेर्धन्यतिले तु जतिलः ॥ ३९३ षण्ढतिले तिलपिजस्तिलपेजोऽथ सर्षपे । कदम्बकस्तु तुभोऽथ सिद्धार्थः श्वेतसर्षपः ॥ ३९४ माषादि तु शमीधान्यं शूकधान्यं यवादयः । स्यात्सत्यशूके किंसारुः कणिशं सस्य शीर्षकम् ॥३९५ स्तम्बे तु गुच्छो धान्यादेर्नालः काण्डोऽफले विह । पलालो धान्यत्वचि तु तुषे बुसे कडङ्गरः ॥३९६
इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे षष्ठो धान्यकाण्डः । इति श्रीहेमचन्द्राचार्यविरचितो निघण्टुशेषः समाप्तः ।
For Private and Personal Use Only