________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०
9
१५९६
१५९८
अभिधान संग्रहः - ८ अनेकार्थसंग्रहः । नागसंख्याभिदोर्यातयामो भुक्तसमुज्झिते । जीर्णे च सार्वभौमस्तु दिग्गजे चक्रवर्तिनि ॥ १५९१ अनुशयः पश्चात्तापे दीर्घद्वेषानुबन्धयोः । अन्वाहार्यममावास्याश्राद्धमिष्टेश्च दक्षिणा ॥ १५९२ अवश्यायो हिमे दर्पेऽप्यपसव्यं तु दक्षिणे । प्रतिकूलेऽन्तशय्या भूशय्या पितृवनं मृतिः ।। १५९३ उपकार्या राजगेहमुपकारोचितापि च । चन्द्रोदयौ शश्युदयोल्लोचौ चन्द्रोदयौषधौ ॥ जलाशयमुशीरे स्याज्जलाशयो जलाश्रये । तण्डुलीयः शाकभेदे विडङ्गतरुतप्ययोः ॥ तृणशूल्यं मल्लिकायां केतकीशाखिनः फले । धनञ्जयो नागभेदे ककुभे देहमारुते || पार्थे निरामयस्तु स्यादिडिक्के गतामये । प्रतिभयं भये भीष्मे प्रतिश्रयः सभौकसोः ॥ १५९७ परिधायः परिकरे जलस्थाननितम्बयोः । पाञ्चजन्यः पोटगले शङ्खे दामोदरस्य च ॥ पौरुषेयं पुरुषेण कृतेऽस्य च हिते वधे । समूहे च विकारे च फलोदयो खुलाभयोः ॥ विलेशयो मूषिकेऽहौ भागधेयः पुनः करे । दायादे भागधेयं तु भाग्ये महालयः पुनः ॥ १६०० तीर्थे विहारपरमात्मनोर्महोदयं पुरे । महोदयः स्वाम्यमुक्त्योर्महामूल्यं महाके || पद्मरागमणौ मार्जालीयः शूद्रबिडालयोः । शरीरशोधने रौहिणेयो वत्से बुधे बले || समुच्छ्रयो वैरोन्नयोः समुदायो गणे रणे । समुदयस्तूमेऽपि संपरायस्तु संयुगे ॥ आपद्युत्तरकाले च स्यात्समाह्वय आहवे । पशुभिः पक्षिभिद्यूते स्थूलोच्चयो वरण्डके ।। गजानां मध्यमगते गण्डाश्माकात्सर्ययोरपि । हिरण्मयो लोकधातौ सौवर्णेऽभिमरो वधे ॥। १६०५ स्वबलसाध्वसे युद्धेऽवसरो वत्सरे क्षणे" । अरुष्करं ब्रेणकरे भल्लातकफलेऽपि च ॥ १६०६ अश्वतरो नागभेदे वेसरेऽनुत्तरः पुनः । निरुत्तरे व श्रेष्ठे चावस्करो गूथगुह्ययोः ॥ अभिहारः "संनहने 'चौरिकोद्यमयोरपि । अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः ॥ निमंत्रणोपनेतव्येऽलंकारः कङ्कणादिषु । उपमादावकूपारः कूर्मराजसमुद्रयोः ॥
१५९९
१६०१
१६०२
१६०३
१६०४
१६०९
१६१०
१६११
१६१२
अवतारस्तु नद्यादितीर्थेऽवतरणेऽपि च । अग्निहोत्रोऽनले हव्येऽसिपत्रो नरकान्तरे ॥ कोशकारेऽर्धचन्द्रस्तु गलहस्तेन्दुखण्डयोः । चन्द्रके बाणभेदे चार्धचन्द्रा त्रिवृताभिदि ॥ आत्मवीरो बलवति थालपत्रे विदूषके । आडम्बरस्तु संरम्भे बृंहिते तूर्यनिस्वने ॥ इन्दीवरं नीलोत्पलमिन्दीवरा शतावरी । उपकारस्तूपकृतौ विकीर्णकुसुमादिषु ॥ उपचारस्तु लैम्बायां व्यवहारोपचैर्ययोः । उदुम्बरः कुष्टभेदे देहियां पण्डके तरौ | उदुम्बरं ताम्र उपहरं रहसि संनिधौ । उद्दन्तुरः कराले स्यादुत्तुङ्गोत्कटदन्तयोः ॥ औदुम्बरो मे रोगभेदे कर्मकरोऽन्तके । भृतिजीविनि भृत्ये च कर्मकरी तु बिम्बिका ॥ १६१६
१६१३
१६१४
१६१५
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१५९४
१५९५
१६०७
१६०८
१. 'अनशय्या' ख. २. 'नृतिः' ग घ ३. 'ताप्यो विटमाक्षिकः' इत्यनेकार्थकैरवाकरकौमुदी. ४. 'तृणैः शुल्यते तृणशूल्यम्' इति टीका. 'तृणमूल्यं' ख; 'तृणशून्यं' ग घ ५. 'इडिकः शिशुवाहक : ' इति टीका. ‘एडके' ख; ‘इडिके' ग-घ. ६. 'अप्यवहिते' ख. ७. 'समुच्छ्रयणं समुच्छ्रयः' इति टीका. 'समुच्छ्रेयः ' ग-घ. ८. 'समुदयनं समुदयः' इति टीका. 'समुदाय: ' ग घ ९ 'अपिशब्दादणे रणेऽपि' इत्यनेकार्थकैरवाकरकौमुदी. १०. इत उत्तरम् 'अजगरः स्मृतः सर्पभेदेऽपि कवचे बुधैः' इति ख- पुस्तकेऽधिकः पाठः. ११. 'अरुः करोति अरुष्करम्, समासे समस्तस्येति षत्वम्' इति टीका. 'अरुस्करं' ग घ. १२. ' व्रणकारे' ख. १३. 'अतिश्रेष्ठे च' ख. १४. 'गोप्य' ग घ. १५. 'संहनने' ख. १६. 'चौर्यमद्यपयोरपि' ग घ १७. 'विश्रामे ' ग घ. १८. 'निमन्त्रणोपनेतव्यं शर्करादि स्वादूकृतं भक्ष्यम्' इति टीका. 'निमन्त्रणेऽपनेतव्ये' ग घ १९. 'श्यालपुत्रे' ख; 'श्याले पुत्रे' ग घ . 'सेवायाम्' ग घ २१. 'चार्ययोः ' ग घ. २२. 'देहल्यां ' ख ग घ. २३. 'कर्मकारी' गन्घ.
२०.