________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः ।
७९१
७९२
७९३
७९४
७९५
७९६
८००
इन्द्राणी शच्यां निर्गुण्ड्यां स्त्रीकरणेऽप्यथोषणा । कणोषणं तु मरिचे करुणो रसवृक्षयोः||७९० करुणा तु कृपायां स्यात्करणं क्षेत्रगात्रयोः । गीताङ्गहारसंवेशभित्सु कायस्थसंहतौ || वर्णानां स्पष्टतादौ च योगिनामासनादिषु । हृषीके साधकतमे ववादौ च कृतावपि ॥ करणः शूद्रविट्पुत्रे कङ्कणं करभूषणे । मण्डने हस्तसूत्रे च कल्याणं हेनि मङ्गले ॥ कत्तृणं रौहिषं फङ्गा करेणुस्तु मतङ्गजे । द्विरदस्य च योषायां कर्णिकारतरावपि । कारणं घातने हेती करणे कारणा पुनः । यातना कार्मणं मन्त्रादियोगे कर्मकारके || hraणी मानदण्डस्य तुरीयांशे पणस्य च । कृष्णलायां वराठे च कृपाणी कर्तरी छुरी ॥ कृपाणोऽसौ क्षेपणी तु नौदण्डजालभेदयोः । कोङ्कणः स्याज्जनपदे कोङ्कणं त्वायुधान्तरे ॥ ७९७ ग्रहणं स्वीकृतौ वन्द्यां धीगुणे शब्द आदरे । ग्रहोपरागे प्रत्याये ग्रामणीः क्षुरमर्दिनि || ७९८ प्रधाने भौगि पत्यौ ग्रामिणी पण्ययोषिति । ग्रामेय्यां नीलिकायां च गोकर्णः प्रमथान्तरे ||७९९ अङ्गुष्ठानामिकोन्माने मृगेऽश्वतरसर्पयोः । गोकर्णी तु मूर्तिकायां चरणो मूलगोत्रयोः ॥ बह्वृचादौ च पादे च चरणं भ्रमणेऽदने । जरणो रुचके हिङ्गौ जीरके कृष्णजीरके ॥ तरुणः कुलपुष्पे स्यादेरण्डे यूनि नूतने । तरणिस्तरणेऽर्केऽशौकुमार्योषधिनौकयोः || Prasar दक्षिणस्तु परच्छन्दानुवर्तिनि । दक्षेऽपसव्ये सरलेऽपाचीनेऽप्यथ दक्षिणा || दिक्प्रतिष्ठा यज्ञदानं हुँघणः पशुवेधसोः । मुद्गरेऽप्यथ दुर्वर्ण कलधौतकुवर्णयोः ॥ दवणं मृष्टपर्णे स्याद्धरितालीरसेऽपि च । धरणोऽहिपतौ लोके स्तने धान्ये दिवाकरे || धरणं धारणे मानविशेषे धरणी भुवि । धर्षणं रतेऽभिभवे धर्षणी त्वभिसारिका || धिषणस्त्रिदशाचार्यो धिषणा तु मनीषिका । निर्याणं निर्गमे मोक्षगजापाङ्गप्रदेशयोः ॥ निर्वाणं मोक्षनिर्वृत्योर्विध्याते करिमज्जने । निर्माणं सारनिर्मित्योः कर्मभेदे समञ्जसे ॥ निःश्रेणिरधिरोहिण्यां खर्जूरीपादपेऽपि च । प्रघणोऽलिन्दके ताम्रकलशे लोहमुद्गरे ॥ प्रवणस्तु क्षणे प्रह्वे क्रमनिम्ने चतुष्पथे । यत्ते च प्रमाणं तु मर्यादासत्यवादिनोः || प्रमातर्येकतेयत्तानित्येषु हेतुशास्त्रयोः । पत्तोर्ण धौतकौशेये स्यात्पत्तोर्णस्तु शोणके ॥ पक्षिणी पूर्णिमाखग्योः शाकिनीरात्रिभेदयोः । प्रवेणिर्वेणिकुथयोः पुराणं प्रत्नशास्त्रयोः ॥ ८१२
८०१
८०२
८०३
८०४
८०५
८०६
८०७
८०८
८०९
८१०
८११
ताङ्गहारसंवेशभिक्षुकायस्थसंहतौ । वर्णानां स्पष्टतादौ च योगिनामासनादिषु । हृषीके साधकतमे ववादौ च कृतावपि । करुणा तु कृपायां स्यात्करुणो रसवृक्षयोः । करेणुर्गजहस्तिन्योः कर्णिकारतरावपि । कारणं' ख.
१. " कक्यते काकणि: । 'ककेणित्' इत्यणिः" इति टीका. 'काकिणी' ख ग व २. 'मानदण्डे स्यात् ' ख. ३. 'हस्त' ग-घ. ४. 'ग्रहणी तु रुगन्तरे । ग्रामणीभगिके पत्यौ प्रधाने क्षुरमर्दिनि । ग्रामणीः पण्ययोषा स्याब्रामेयी नीलिकापि च । गोकर्णोऽश्वतरे सर्वे मृगभेदे गणान्तरे । अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विधौ । चरणो बहुचादौ स्यात्पादे च मूलगोत्रयोः । चरणं भ्रमणे अक्षे रासभस्य ध्वनावपि । जरणो' ख. ५. 'ग्राम: पेटकं संवसथो वास्त्यस्या ग्रामिणी' इति टीका. 'ग्रामणीः ' ख ग घ ६. 'ग्रामेयायां' ग घ ७. 'द्रविणं काञ्चने धने । पराक्रमे बलेऽपि स्यादुषणः' ख. ८ 'पशु' गन्ध ९. 'पृष्ट' ख. १०. 'द्रिपतौ' ग घ ११. ' धरुणः सलिले स्वर्गे परमेष्ठिनि धर्मणः । सर्पभेदे वृक्षभेदे धर्षणी त्वभिसारिका । धर्षणं स्यात्परिभवे धारणी नाटिकाभिदि । धारणा स्यात्तु योगाङ्गे धारणं ग्रहणे मतम् । धिषण' ख. 'धरणं' ग घ. १२. 'विधाते' ख. 'विश्रान्ते' ग घ १३. 'आवतें' ग घ १४. 'पत्तोर्णः शोणकद्रुमे' ख.
For Private and Personal Use Only