________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-७ अभिधानचिन्तामणिपरिशिष्टः । अथ रत्नप्रभा धर्मा वंशानुशर्कराप्रभा । स्याद्वालुकाप्रभा शैला भवेत्पङ्कप्रभाञ्जना ॥ धूमप्रभा पुनारिष्टा माधव्या तु तमःप्रभा । महातमःप्रभा माधव्येवं नरकभूमयः ।
इत्याचार्य हेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे नारककाण्डः पञ्चमः ॥ ५ ॥ आनुकूल्यार्थकं प्राध्वमसाकल्ये तुचिञ्चन । तुहिचस्महवै पादपूरणे पूजने स्वती ॥ १९७ वद् वा यथा तथैवैवं साम्येऽहो ही च विस्मये । स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः ।। १९८ ऊं पृच्छायामतीते प्राक् निश्रयेऽद्धाञ्जसाद्वयम् । अतो हेतौ महः प्रत्यारम्भेऽथ स्वयमात्मनि ॥१९९ प्रशंसने तु सुष्टु स्यात्परश्वः श्वः परेऽहनि । अद्यावाइयथ पूर्वेऽहीत्यादौ पूर्वेधुरादयः ॥ २०० समाने हति सद्यः स्यात्परे वह्नि परेद्यवि । उभयद्युस्तूभयेयुः समे युगपदेकदा ॥ २०१ स्यात्तदानीं तदा तर्हि यदा यद्यन्यदैकदा । परुत्पगर्येषमोऽब्दे पूर्वे पूर्वतरेऽत्र च ॥ २०२ प्रकारेऽन्यथेतरथा कथमित्थं यथा तथा । द्विधा द्वेधा त्रिधा त्रेधा चतुर्धा द्वैधमादि च ।। २०३ द्विव्यश्चतुःपञ्चकृत्व इत्याद्यावर्तने कृते । दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः ॥ २०४
इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे मामान्यकाण्डः षष्टः ॥ ६ ॥ इति श्रीहेमचन्द्राचार्यविरचितोऽभिधानचिन्तामणिपरिशिष्टः समाप्तः ।
For Private and Personal Use Only