________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हेमचन्द्रः। कामं कामसमृद्धिपूरकरमारामाभिरामाः सदा स्वच्छन्दखनतत्परैतिजकुलैरत्यन्तवाचालिताः । उत्सर्पद्गुणशालिवप्रवलयप्रीतैः प्रसन्ना जनैरत्रान्तश्च बहिश्च संप्रति भुवः शोभाद्भुतं बिभ्रति ॥
लक्ष्मीकुलं क्षोणिभुजो दधानः प्रौढोदयाधिष्ठितविग्रहोऽयम् ।
विभ्राजते नागरकाम्यवृष्टिर्वप्रश्च चौलुक्यनराधिपश्च । यावत्पृथ्वी पृथुविरचिताशेषभूभृन्निवेशा यावत्कीतिः सगरनृपतेर्विद्यते सागरोऽयम् । तावन्नन्द्याद्विजवरमहास्थानरक्षानिदानं श्रीचौलुक्यक्षितिपतियशःकीर्तनं वप्र एषः ॥
एकाहनिप्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः ।
श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेतामकरोत्प्रशस्ताम् ॥ संवत् १२०८ वर्षे आश्विन शुदि (२) गुरौ लिखितं नागरब्राह्मणपण्डितबालणेन ॥' इति काव्यमालापुस्तकान्तर्गतप्राचीनलेखमालायां G. Biihler Ph. D., L. L. 1)., ('. I. E. महाशयप्रेषित ४५ तमलेखतः विक्रमसंवत् १२०८ (.1. D. 1151) रूपः स्फुटमेव प्रतीयते । एवं च द्वादशी ख्रिस्तशतिका हेमचन्द्रसत्ताधारभूतावगम्यते ।
अनेनाचार्यश्रीहेमचन्द्रेणेयन्तो ग्रन्था निर्मिता इति निश्चितं नैव । परंतु तन्निमितग्रन्थेषु-अनेकार्थकोषः, अनेकार्थशेषः, अभिधानचिन्तामणिः (नाममालाव्याख्या), अलंकारचूडामणिः (काव्यानुशासनव्याख्या). उणादिसूत्रवृत्तिः, काव्यानुशासनम् , छन्दोनुशासनम् , छन्दोनुशासनवृत्तिः. देशीनाममाला सवृत्तिः, [याश्रयकाव्यं सवृत्ति], धातुपाठः सवृत्तिः, धातुपारायणं सवृत्ति, धातुमाला, नाममाला, नाममालाशेपः, निघण्टुशेषः, [प्रमाणमीमांसा सवृत्तिः,] बलाबलसूत्रबृहद्वत्तिः, बालभाषाव्याकरणसूत्रवृत्तिः, योगशास्त्रम् , विभ्रमसूत्रम् , [लिङ्गानुशासनं सवृत्ति. शब्दानुशासनं सवृत्ति, शेषसंग्रहः, शेषसंग्रहसारोद्धारः, एते ग्रन्थाः (atalogus ( ':atalogurum ग्रन्थे Dr. Theorlor Aafrecht महाशयैः प्रकाशिताः। एवमनेकलक्षात्मकग्रन्थकर्तृश्वेताम्बरजैनाचार्यश्रीहेमचन्द्रकृतान्यभिधानान्येवास्मिन्पुस्तके संगृहीतानि ।
तदेतेपामभिधानानां मुद्रणाय शोधनसमय येषां सहृदयाना पुस्तकानि प्राप्तानि, तेषां नामानि धन्यबादपुरःसरं प्रकाश्यन्त -- १. अभिधानचिन्तामणिः (नाममाला, -वाराणसीमुद्रितः ।
.-जयपुरराजगुरुश्रीलक्ष्मीदत्तभट्टात्मजश्रीदत्तानाम् ।
----जयपुरराजकीयपुस्तकालयतः । २. अभिधानचिन्तामणिपरिशिष्टम् (नागमालाशपः)----अभिधानचिन्तामणितोऽस्माभिरुद्धतम् । ३, अनेकार्थसंग्रहः
----वाराणसीमुद्रितः ।
-जयपुरराजगुरुश्रीलक्ष्मीदत्तात्मजश्रीदत्तानाम् । अनकाथकबाकरकोगुदा
-~-जयपुरराजगुरुपर्वणीकरश्रीनारायणभट्टानाम् । ----जंगमयुगप्रधानबृहत्खरतरगच्छप्रधानभट्टारक
श्रीजिनमुक्तिसूरिणाम् । ४. निघण्टुशेपः
- पुण्यपत्तनस्थपुस्तकालयतः ।
For Private and Personal Use Only