________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः ॥
अभिधानसंग्रहः।
(३) श्रीपुरुषोत्तमदेवप्रणीता
हारावली।
भुजगपतिविमुक्तस्वच्छनिर्मोकवल्लीविलसितमनुकुर्वन्यस्य गङ्गाप्रवाहः । शिरसि सरसभास्वन्मालतीदामलक्ष्मी लघयति हिमगौरः सोऽस्तु वः साध्यसिद्ध्यै ॥ १ कल्पावसानसमये स्थितये कवीनां देहान्तरं सृजति या किमपि प्रसन्ना । यस्याः प्रसादपरमाणुरपि प्रतिष्ठामभ्येति कामपि नमामि सरस्वती ताम् ॥ निर्मत्सराः सुकृतिनः खलु ये विविच्य कणे गुणस्य कणमप्यवतंसयन्ति । येषां मनो न रमते परदोषवाद ते केचिदेव विरला भवि संचरन्ति ॥ मुक्तामयातिमधुरा मसृणावदातच्छायाधिरागतरलामलसद्गुणश्रीः । साध्वी सतां भजतु कण्टमसौ प्रियेव हारावली विरचिता पुरुषोत्तमेन ॥ कि नात्र सन्ति सुधियामभिधानकोषाः किंतु प्रसिद्धविषयव्यवहारभाजः । गोष्ठीषु वादपरमोहफलासु केषां हारावली न विदधाति विदग्धिमानम् ॥ एकं तमेव गणयन्ति परं विदग्धा वाचां विदग्धिमनि मज्जति यस्य लोकः । गोष्टीपु यः परमशाब्दिकदुर्गमासु दुर्बोधशब्दगतसंशयमुच्छिनत्ति ॥ आव्याधशब्दतः श्लोकैरर्धरातलिमात्ततः । शब्दाः पादैविबोद्धव्याः प्रागनेकार्थतस्ततः ।। विषमनयनशंभू चन्द्रमौलिर्भगाली वृषभपतिगणेशौ रेरिहाणो वृषाङ्कः ।
त्रिपुरदहनशूलिस्थाणुखटाङ्गिहिण्डिप्रियतमशितिकण्ठा भर्यकल्माषकण्ठौ ॥ शतधामा चतुष्पाणिः पृष्णिगर्भो गदाग्रजः । गदी कौस्तुभवक्षाश्च पाश्चजन्यधरोऽच्युतः ॥ वैनतेयः पक्षिसिंहः शाल्मली हरिवाहनः । अमृताहरणस्ताक्ष्यो नागाशनखगेश्वरौ ॥
खगपतङ्गवियन्मणिभानवो हरिभगेननिदाघकराद्रयः ।।
____किरणमालिविरोचनहेलयो दिनमणिस्तरणिश्च दिनप्रणीः ॥ श्रुतःश्रवानुजः क्रोडो मन्दश्छायासुतः शनिः । सप्ताचिर्नीलवसनः पातङ्गिः क्रूरलोचनः ॥ १२
दाक्षायणीपतिवलक्षगुपक्षजन्मतुङ्गीशरात्रिमणिदर्शविपत्सुधाङ्गाः ।
राजा समुद्रनवनीततमोनुदौ मा ग्लौरिन्दुरेणतिलको हरिरोहिणीशौ ॥ १३ १ 'लपयति' ग. २ 'किमपि या सृजति प्रसन्ना' ख-ग. ३ 'नैव' ख-ग. ४ 'शङ्क' ख-ग. ५ 'वृषभगति' ख.ग. ६ 'कालो' क, ७ 'सुधांशुः क, 'सुधाङ्गः' ख-ग',
For Private and Personal Use Only