________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । श्रौषट्वौषट्वषट्स्वाहा स्वधा देवहविर्हतौ । रहस्युपांशु मध्येऽन्तरन्तरेणान्तरेऽन्तरा ॥ १५३८ प्रादुराविः प्रकाशे स्यादभावे व न नो नहि । हठे प्रसह्यमा मास्म वरणेऽस्तमदर्शने ॥ १५३९ अकामानुगतौ कामं स्यादोमां परमं मते । कच्चिदिष्टपरिप्रश्नेऽवश्यं नूनं च निश्चये ॥ १५४० बहिर्बहिर्भवे ह्यः स्यादतीतेऽह्नि श्व एष्यति । नीचैरल्पे महत्युञ्चैः सत्त्वेऽस्ति दुष्टु निन्दने ।। १५४१ ननुच स्याद्विरोधोक्तौ पक्षान्तरे तु चेद्यदि । शनैर्मन्देऽवरे त्वग्रोिषोक्तावं नतौ नमः ॥ १५४२
इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणो नाममालायां सामान्यकाण्डः षष्टः ॥ ६ ॥
इति श्रीहेमचन्द्राचार्यविरचितोऽभिधानचिन्तामणिः समाप्तः ।
For Private and Personal Use Only