________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४८
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः ।
१२३६
१२३७
१२३८
१२३९
कक्ष्या दृष्या वरत्रा स्यात्कण्ठबन्धः कलापकः । घोटकस्तुरगस्तार्क्ष्यस्तुरंगोऽश्वस्तुरंगमः || १२३२ गन्धर्वोऽर्वा सप्तिवीती वाहो वाजी हयो हरिः । वडवाश्वा प्रसूर्वामी किशोरोऽल्पवया हयः।। १२३३ जवाधिकस्तु जवनो रथ्यो वोढा रथस्य यः | आजानेयः कुलीनः स्यात्तत्तदेशास्तु सैन्धवा || १२३४ वनायुजाः पारशीकाः काम्बोजा बाल्हिकादयः । विनीतस्तु साधुवाही दुर्विनीतस्तु शुकलः ।। १२३५ कश्यः कशार्हो हृद्वावर्ती श्रीवृक्षकी हयः । पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥ पुच्छोरः खुर के शास्यैः सितैः स्यादष्टमङ्गलः । श्वेते तु कर्ककोकाहौखोङ्गाहः श्वेतपिङ्गले ॥ पीयूषवर्णे सेराहः पीते तु हरियो हये । कृष्णवर्णे तु खुङ्गाहः कियाहो लोहितो हयः ॥ आनीलस्तु नीलकोsr त्रियूहः कपिलो हयः । वोल्लाहस्त्वयमेव स्यापाण्डुकेसरबालधिः || उराहस्तु मनाक्पाण्डुः कृष्णजङ्घो भवेद्यदि । सुरूहको गर्दभाभो वोरुखानस्तु पाटलः ॥ १२४० कुलाहस्तु मनापीतः कृष्णः स्याद्यदि जानुनि । उकनाहः पीतरक्तच्छायः स एव तु क्वचित १२४१ कृष्णरक्तच्छविः प्रोक्तः शोणः कोकनदच्छविः । हरितः पीतहरितच्छायः स एव हालकः ।। १२४२ पङ्गुलः सितकाचाभो हलाहश्चित्रितो हयः । ययुरश्वोऽश्वमेधीय: प्रोथमश्वस्य नासिका || १२४३ मध्यं कश्यं निगालस्तु गल्लोद्देशः खुराः शफाः । अथ पुच्छं बालहस्तो लाङ्गूलं लूम वालधिः १२४४ अपावृत्तपरावृत्तलुठितानि तु वेतेि । धोरितं वल्गितं प्लुत्युत्तेजितोत्तेरितानि च ॥ १२४५ गतयः पञ्च धाराख्यास्तुरंगाणां क्रमादिमाः । तत्र धौरितकं धौर्य धोरणं धोरितं च तत् ।। १२४६२ बभ्रुकङ्गशिखिकोडगतिवद्वल्गितं पुनः । अग्रकायसमुल्लासात्कुञ्चितास्यं नतत्रिकम् ॥
१२४७
१२४८
१२५३
१२५४
१२५५
१२५३
तं तु लङ्घनं पक्षिमृगगत्यनुहारकम् । उत्तेजितं रेचितं स्यान्मध्यवेगेन या गतिः ॥ उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि । उत्प्लुत्योत्प्लुत्य गमनं कोपादिवाखिलैः पदैः ॥ १२४९ आश्वीनोऽध्वा स योऽश्वेन दिनेनैकेन गम्यते । कवी खलीनं कविका कवियं मुखयन्त्रणम् || १२५० पाङ्गी पट्टे तु तलिका तलसारकम् । दामाञ्चनं पादपाशः प्रक्षरप्रखरौ समौ ॥ १२५१ 'चर्मदण्डे कशा रश्मौ वैल्गावक्षेपणी कुशा । पर्याणं तु पल्ययनं वीतं फल्गु हयद्विपम्' ।। १२५२ वेसरोऽश्वतरो वेगसरश्चाध क्रमेलकः । कुलनाशः शिशुनामा शलो भोलिर्मरुप्रियः ॥ मेयो महाङ्गो वासन्तो द्विककुद्दुर्गलङ्घनः । भूतन्न उष्ट्रो दाशेरो रवणः कण्टकासनः || दीर्घग्रीवः केलिकीर्णः करभस्तु त्रिहायणः । स तु शृङ्खलको दारुमयैः स्यात्पादबन्धनैः ॥ गर्दभस्तु चिरमेही वायो रासभः खरः । चक्रीवाञ्शङ्कुकर्णोऽथ ऋषभो वृषभो वृषः || वाडवेयः सौरभेयो भद्रः शकरशाकरौ । उक्षानवान्ककुद्मान्गौर्बलीवर्दश्व शांकरः ॥ उक्षा तु जातो जातोक्षः स्कन्धकः स्कन्धवाहकः । महोक्षः स्यादुक्षतरो वृद्धाक्षस्तु जरद्भवः १२५८ षण्ढतोचित आर्षभ्यः कूटो भविषाणकः । इदूरोगोपतिः षण्ढो गीवृषो मदको हलः । १२५९ वत्सः शकृत्करिस्तर्णो दम्यवत्सतरौ समौ । नस्योतो नस्तितः षष्टवाट् तु स्याद्युगपार्श्वगः || १२६० युगादीनां तु वोढारो युग्यंप्रासङ्गयशाकटाः । स तु सर्वधुरीणः स्यात्सर्वो वहति यो धुरम् ॥ १२६१ एकधुरीणैकधुरावुभावेकधुरावहे । धुरीणधुर्यधौरेयधौरेयकधुरंधराः ॥ धूर्वऽथ गलिर्दुष्टवृषः शक्तोऽप्यधूर्वहः । स्थैौरीष्पृष्टयः पृष्ठवाह्यो द्विदन्षोद्विषदौ । १२६३ वहः स्कन्धोंऽसकूटं तु ककुदं नैचिकं शिरः । विषाणं कूणिका शृङ्गं सास्ना तु गलकम्बल: १२६४ १. वल्गवागे अपि २. मयुरित्येके. ३. इत्वर इत्येके.
१२५७
१२६२
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only