________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
अभिधान संग्रह :: - ८ अनेकार्थसंग्रहः ।
१७७७
१७७८
१७८४
पादर्पूरणेऽवधृतौ तु विशेषेऽवधारणे । समुच्चये पादपूर्ती, धिग्निर्भर्त्सननिन्दयो । नि स्यात्क्षेपे भृशार्थे च नित्यार्थे दानकर्मणि । संनिधानोपरमयोः संशयाश्रयराशिषु ॥ मोक्षेऽन्तभावेऽघोभावे बन्धने कौशलेऽपि च । नु प्रश्नेऽनुशयेऽतीतार्थे विकल्पवितर्कयोः ॥ १७७९ aatदर्थे सादृश्ये तद्विरुद्धतदन्ययोः । व्यतिक्रमे स्वरूपार्थे निषेधाभावयोरपि ॥ १७८० निर्निश्चये क्रान्ताद्यर्थे निःशेषप्रतिषेधयोः । प्राक्पूर्वस्मिन्प्रभाते दिग्देशकालेष्वनन्तरे ॥ १७८१ अतीतेऽग्रेऽप्यथ प्रस्याद्गताद्यर्थप्रकर्षयोः । वा समुच्चय एवार्थे उपमानविकल्पयोः ॥ १७८२ वि श्रेष्ठेऽतीते नानार्थे वै तौ पादपूरणे । शं कल्याणे सुखेऽर्थं स्वित्परिप्रश्नवितर्कयोः || १७८३ सं संगार्थे प्रकृष्टार्थे शोभनार्थर्समार्थयोः । स्मातीते पादपूर्ती ह संबुद्धौ पादपूरणे ॥ हा दुःखविषादेषु हि ताववधारणे । विशेषे पादपूर्ती च ही विस्मयविषादयोः ॥ १७८५ दुःखहेतौ च हं रोषभाषणेऽनुनयेऽपि च । हुं वितर्के परिप्रश्ने, स्यान्मनागल्पमन्दयोः ॥ १७८६ अङ्ग संबोधने हर्षे पुनरर्थे च किं च तु । साकल्यारम्भयोस्तिर्यक्स्यान्त्तिरश्चीनवक्रयोः ॥ हिरुग्मध्ये विनार्थेऽति प्रकर्षे लङ्घने भृशे । स्तुतावसंप्रतिक्षेपेऽप्यस्तु पीडानिषेधयोः ॥ असूयायामनुज्ञायामाराद्दूरसमीपयोः ॥ इति स्वरूपे सांनिध्ये विवक्षानियमे मते | eat प्रकार प्रत्यक्ष प्रकाशेष्ववधारणे । एवमर्थे समाप्तौ स्यादुत प्रश्नवितर्कयोः ॥ समुचये विकल्पे च तावद्यावदिवावधौ । कार्त्स्न्येऽवधारणे माने प्रतीत्थंभूतभागयोः ॥ I प्रतिदाने प्रतिनिधौ वीप्सालक्षणयोरपि । पश्चात्प्रतीच्यां चरमे बतामन्त्रणखेदयोः ||
१७८७
१७८८
१७८९
१७९०
१७९१
१७९२
१७९५
यानुकम्पासु यद्वत्प्रश्नवितर्कयोः । शश्वत्सह पुनर्नित्ये सकृत्सहैकवारयोः ॥ १७९३ स्वस्त्याशीः क्षेमपुण्यादौ साक्षात्प्रत्यक्ष तुल्ययोः । हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः १७९४ निश्चये च प्रमोदेचाप्यथो अथ समुच्चये । मङ्गले संशयारम्भाधिकारानन्तरेषु च ॥ अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि । तथा स्यान्निश्चये पृष्ठप्रतिवाक्ये समुच्चयेः ॥ यथा निदर्शने ' द्वौ तदेशे निर्देशसाम्ययोः । हेतूपपत्तौ च वृथा त्वविधौ स्यादनर्थके ।। अनु लक्षणवीप्सेत्थंभूतभागेषु संनिधौ । सादृश्यायामहीनेषु पञ्चादर्थसहार्थयोः ॥ नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे । वाक्यारम्भेऽप्यनुनयामन्त्रणानुज्ञयोरपिः || नानाविनोभानेकार्थे तु स्थाने तु कारणे । युक्ते साम्येऽप्यप स्तेयेऽपकृष्टे वर्जने मुदि || १८०० विपर्यये वियोगे च निर्देशे विकृतावपि । अपि संभावनाशङ्कागर्हणासु समुच्चये ॥ प्रश्न युक्तपदार्थेषु कामचारक्रियासु च । उपासन्नेऽधिके होने सादृश्यप्रतियत्नयोः || तद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः । दाक्षिण्याचार्यकरणदोषाख्यानात्ययेषु च ॥
१७९९
१८०१
१८०२
१८०३
For Private and Personal Use Only
१७९६
१७९७
१७९८
१. 'पूर्णेऽवधूतौ च तु' गन्ध २. 'संशये यथा, निरेकमेकोऽपि निराकरोति' इति' टीका. 'संश्रयाश्रयराशिषु' ख-ग-घ-पुस्तकस्थः पाठः ३. 'अनुनये' ख; 'अनुशाये तीर्थे स्यात् ' ग घ ४. 'विशेष' ग घ ५. 'अवान्तरे' ख ग घ ६. 'अपि श्वित्स्वित्स्यात्प्र' ग घ ७ 'प्रसंगार्थे' ख. ८. 'समुच्चयोः ' ग घ ९ इतःपरम् 'सु पूजायां भृशाथानुमतिकृच्छ्रसमृद्धिषु' इति ख- पुस्तकेऽधिकः पाठोऽयम्. १०. 'सुख' गन्ध. ११. 'अनुशये' ग घ. १२. 'हूं लज्जायां निवारणे । मनागल्पे च मन्दे चाङ्ग संबोधनहर्षयोः । पुनरर्थे चाथ किं च संकल्पारम्भयो१३. ' प्रकर्षेष्व' ख. १४. ' वितर्के च
तम् । तिर्यक्तिरोर्थे वक्रे च विहगादौ त्वनव्ययम्' । इत्येवं ख- पुस्तके.
1
यावत्तावदिवावधौ' ग-व- पुस्तकयोरेवं पाठः १५. 'प्रमादे' ग घ. १६. 'हेतू' ख. १७. 'मरणोद्यमनार्थयोः ' ख.