________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभय रत्नसार। मुनीश !, मन्ये न मे श्रवणगोचरतां गतोऽसि ।
आकर्णिते तु तव गोत्रपवित्रमन्त्रे, किं वा विपद्विषधरो सविधं समेति ? ॥ ३५ ॥ जन्मान्तरेऽपि तव पाद युगं न देव !, मन्ये मया महितमीहितदानदक्षम्। तेनेह जन्मनि मुनीश ! पराभवानां, जातो निकेतनमहं मथिताशयानाम् ॥ ३६ ॥ नूनं न मोहतिमिरावतलोचनेन, पूर्व विभो ! सकदपि प्रविलोकितोऽसि । मर्माविधो विधुरयन्ति हि मामनाः, प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ? ॥ ३७॥ आकणितोऽपि महितोऽपि निरीक्षितोऽपि, नूनं न चेतसि मया विधतोऽसि भक्त्या। जातोऽस्मि तेन जनबान्धव ! दुःखपात्रं, यस्मारिकयाः प्रतिफलन्ति न भावशून्याः ॥ ३८ ॥ त्वं नाथ ! दुःखिजनवत्सल हे शरण्य, कारुण्यपुण्यवसते वशिनां वरेण्य, भक्त्या नते मयि महेश ! दयां विधाय, दुःखाकरोद लनतत्परतां विधेहि ॥३६॥ निःसङ्ख्य
For Private And Personal Use Only