________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री कल्याणमन्दिर स्तोत्रम् १६१ पालक ! दुर्गतस्त्वं, किंवाऽक्षरप्रकृतिरप्यलिपिस्त्वमीश !। अज्ञानवत्यपि सदैव कथञ्चिदेव, ज्ञानं त्वयि स्फुरति विश्वविकाशहेतुः ॥ ३०॥ प्राम्भारसंभतनभांसि रजांसि रोषा-दुत्थापितानि कमठेन शठेन यानि। छायाऽपि तस्तव न नाथ ! हता हताशो, यस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१॥ यद्गजदूर्जितघनौघमदभ्रभीमं, भ्रश्यत्तडिन्मुसलमांसलघोरधारम् । दैत्येन मुक्तमथ दुस्तरवारि दध्र, ते नैव तस्य जिन ! दुस्तरवारिकृत्यम् ॥ ३२ ॥ ध्वस्तोवकेशविकृताकृतिमर्त्य मुण्ड–प्रालम्बभृद्भयदवक्रविनियंदग्निः । प्रेतवजः प्रति भवन्तमपोरितो यः, सोऽस्याभवत्प्रतिभवं भवदुःखहेतुः ॥ ३३ ॥ धन्यास्त एव भुवनाधिप ! ये त्रिसन्ध्य-मारा. धयन्ति विधिवद्विधुतान्यकृत्याः। भक्त्योल्लसत्पुलकपक्षमलदेहदेशाः, पादद्वयं तव विभो ! भुवि जन्मभाजः॥ ३४॥ अस्मिन्नपारभववारिनिधौ
For Private And Personal Use Only