________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री कल्याणमन्दिर-स्तोत्रम् १६३ सारशरणं शरणं शरण्य–मासाद्य सादितरिपुप्रथितावदातम् । त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो, वध्योऽस्मि चेद भुवनपावन ! हा हतोऽस्मि ॥४०॥ देवेन्द्रवन्ध ! विदिताखिलवस्तुसार !, संसारतारक विभो ! भुवनाधिनाथ । त्रायख देव ! करुणाहद मां पुनीहि, सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ ४१ ॥ यद्यस्ति नाथ ! भवदङ घिसरोरुहाणां, भक्त फलं किमपि संततिसंचितायाः। तन्मे त्वदेकशरणस्य शरण्य भूयाः, स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ इत्थं समाहितधियो विधिवज्जिनेन्द्र !, सान्द्रोल्लसत्पुलककञ्चुकिताङ्गभागाः । त्व बिम्बनिर्मलमुखाम्बजबद्धलक्षा, ये संस्तवं तव विभो! रचयन्ति भव्याः ॥४३॥जननयनकु. मुदचन्द्रप्रभास्वराः स्वर्गसंपदोभुक्त्वा । ते विगलितमलनिचया,अचिरान्मोक्षं प्रपद्यन्तो४४ायुग्मम् ॥ इति श्रीकल्याणमन्दिर-स्तोत्रं संपूर्णम् ॥
For Private And Personal Use Only