________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री कल्याणमन्दिर स्तोत्रम्
१५७
जिन ! कथं भविनां ? त एव त्वामुद्रहन्ति हृदयेन यदुत्तरन्तः । यद्वा दृतिस्तरति यज्जलमेष नून - मन्तर्गतस्य मरुतः स किलानुभावः ॥१०॥ यस्मिन् हरप्रभृतयोऽपि हतप्रभावाः, सोऽपि त्वया रतिपतिः चपितः क्षणेन । विध्यापिता हुतभुजः पयसाऽथ येन, पीतं न किं तदपि दुर्द्धरवाडवेन ? ॥ ११ ॥ स्वामिन्ननल्प गरिमाणमपि प्रपन्ना- स्त्वां जन्तवः कथमहो हृदये दधानाः । जन्मोदधिं लघु तरन्त्यतिलाघवेन ?, चिन्त्यो न हन्त महतां यदि वा प्रभावः ॥ १२ ॥ क्रोधस्त्वया यदि विभो । प्रथमं निरस्तो, ध्वस्तास्तदा बत कथं किल कर्मचौरा : ? । प्लोष - त्यमुत्र यदि वा शिशिराऽपि लोके, नीलद्र, माणि विपिनानि न किं हिमानी ? ॥ १३ ॥ त्वां योगिनो जिन । सदा परमात्मरूप मन्वेषयन्ति ! हृदयाम्बुजकोशदेशे । पूतस्य निर्मलस्चेर्यदिवा किमन्य- दक्षस्य संभवि पदं ननु कर्णिकायाः ?
For Private And Personal Use Only