________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५६
अभय रत्नसार ।
नाथ ! जडाशयोऽपि कर्त्तु ं स्तवं लसदसंख्यग्गाकरस्य । बालोऽपि किं न निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियाऽम्बुराशेः ? ॥ ५ ॥ ये योगिनामपि न यान्ति गुणास्तवेश !, वक्तु ं कथं भवति तेषु ममावकाशः ? । जाता तदेवमसमीक्षितकारितेयं, जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥ ६ ॥ आस्तामचिन्त्य - महिमा जिन ! संस्तवस्ते, नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्थजनान्निदाघे, प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥७॥ हृद्वर्त्तिनित्वयि विभो ! शिथिलोभवन्ति, जन्तोः चणेन निविडा अपि कर्मबन्धाः । सद्यो भुजङ्गममया इव मध्यभाग — मभ्यागते वनशिखण्डिनि चन्दनस्य ॥ ८ ॥ मुच्यन्त एव मनुजाः सहसा
जिनेन्द्र !, रौद्ररुपद्रवशतैस्त्वयि वीचितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्र, चौरेंरिवाशु पशवः प्रपलायमानैः ॥ ६ ॥ त्वं तारको
For Private And Personal Use Only