________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५८
अभय रत्नसार ।
॥ १४ ॥ ध्याना ज्जिनेश । भवतो भविनः चणेन, ! देहं विहाय परमात्मदशां व्रजन्ति । तोत्रानलादुपलभावमपास्य लोके, चामीकरत्वमचिरादिव धातुभेदाः ॥ १५ ॥ अन्तः सदैव जिन ! यस्य विभाव्यसे त्वं भव्यैः कथं तदपि नाशय से शरीरम् ? । एतत्स्वरूपमथ मध्यविवर्त्तिनो हि. यद्विग्रहं प्रशमयन्ति महानुभावाः ॥ १६ ॥ आत्मा मनीषिभिरयं त्वदभेदबुध्या, ध्यातो जिनेन्द्र ! भवतीय भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं, किं नाम नो विषविकारमपाकरोति ? ॥१७॥ त्वामेव वीततमसं परवादिनोऽपि, नूनं विभो ! हरिहरादिधिया प्रपन्नाः । किं का'चकामलिभिरीश ! सितोऽपि शङ्खो, नो गृहते ? विविधवर्णविपर्ययेण ॥ १८ ॥ धर्मोपदेशसमये सविधानुभावा दास्तां जनो भवति ते तरुरप्यशोकः । अभ्युते दिनपतौ समहीरुहोऽपि, किं वा विबोधमुपयाति न जीवलोकः ? ॥ १६ ॥
For Private And Personal Use Only