________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋषिमण्डल-स्तोत्रम्। १२३ __ अथ श्रीऋषिमण्डल-स्तोत्रम् ।
आद्यन्ताक्षर-संलक्ष्य,-मदरं व्याप्य यत् स्थितम्। अग्नि-ज्वाला-समं नाद-बिन्द-रेखासमन्वितम् ॥ १॥ अग्नि-ज्वाला-समाक्रान्तं, मनो-मल-विशोधकम् । देदीप्यमानं हृत्पद्म, तत्पदं नौमि निर्मलम् ॥२॥ अर्हमित्यक्षरं ब्रह्मवाचकं परमेष्ठिनः। सिद्धचक्रस्य सद्बीजं, सर्वतः प्रणिदध्महे ॥ ३ ॥ ॐ नमोऽहंदभ्य ईशेभ्य ॐ सिद्धेभ्यो नमोनमः । ॐ नमः सर्वसूरिभ्य उपाध्यायेभ्य ॐ नमः॥ ४ ॥ॐ नमः सर्वसाधुभ्य ॐ ज्ञानेभ्यो नमोनमः । ॐ नमस्तत्त्वदृष्टिभ्यश्चारित्रभ्यस्तु ॐ नमः ॥ ५ ॥ श्रेयसेस्तु श्रियेस्त्वेतदर्हदाद्यष्टकं शुभम् । स्थानेष्वष्टसु विन्यस्तं, पृथग्बीजसमन्वितम् ॥६॥ आद्य पदं शिखां रक्षेत्, परं रक्षेत्तु मस्तकम् । तृतीयं रक्षेन्ने बेटे , तुर्य रक्षेच्च नासिकाम् ॥७॥ पञ्चमं तु मुखं रक्षेत्, षष्ठं रक्षेच्च घरिटकाम्।
For Private And Personal Use Only