________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
अभय रत्नसार।
नाभ्यन्तं सप्तमं रचेद, रक्षेत् पादान्तमष्टमम् ॥८॥ पूर्वप्रणवतः सान्तः, सरेफो द्वयब्धिपञ्चषान्। सप्ताष्टदशसूर्याङ्कान्, श्रितो बिन्दुस्वरान् पृथक् ॥६॥ पूज्यनामाक्षरा आद्याः, पञ्चातो ज्ञानदर्शन-चारित्रेभ्यो नमो मध्ये, ही सान्तसमलंकृतः ॥१०॥ॐ हाँ हौँ । ह। है। ह्र । है । ह्रौँ । ह्रः। असिआउसाज्ञान-दर्शनचारित्रेभ्यो नमः। जम्बवृक्षधरो द्वीपः, क्षारोदधि समावृतः। अहंदाद्यष्टकैरष्टकाष्ठाधिष्ठरलं कृतः॥११॥ तन्मध्यसंगतो मेरुः, कूटलक्षरलंकृतः। उच्च रुच्च स्तरस्तार, स्तारामण्ड. लमण्डितः ॥१२॥ तस्योपरि सकारान्तं, बीजमध्यास्य सर्वगम्। नमामि बिम्बमाईन्त्यं, ललाटस्थं निरञ्जनम् ॥१३॥ अक्षयं निर्मलं शान्तं, बहुलं जाब्य-तोज्झितम्। निरीहं निरहङ्कार, सारं सारतरं घनम्॥१४॥ अनुद्धतं शुभं स्फीतं, सात्विकं राजसं मतम्। तामसं चिरसंबुद्धं, तै
For Private And Personal Use Only