SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ B. Paniniya School 97 माघद्वतण्डगण्डस्थलबहलगलद्दानवारिप्रवाहैवैरिस्त्रीबाष्पवर्षेः प्रतिदिनविहितैर्विप्रदानोदकैश्च । सिक्ता पातालमूलं किमपि वसुमती यस्य नित्यं प्रसूते भूरि स्वर्गापवर्गप्रभृतिफलभृतः कीर्तिलक्ष्मीप्ररोहान् ॥ २८॥ बालार्कोदरसोदराविकिरणस्पष्टारिसीमन्तिनीसीमन्तेषु समर्थयन्नविरतं सिन्दूरपूरश्रियम्। सर्वाशाः परिपूरयन्निजयशःकर्पूरपूरैश्चिरं श्रीमान् वीरवरो जगत्यनुपमश्रीः केन वा वर्ण्यताम् ॥ २९ ॥ सोयं काव्यकलाविलासभवनं श्रीपारसीकेश्वरप्राणानामधिदेवतं गुरुगुणश्रेणीमणीरोहणम् । विद्यानां निकषोपलः कुलगृहं केलीकुरङ्गीदृशां शश्वत्पण्डितमण्डलीपरिवृतो विद्याविनोदं व्यधात् ॥ ३०॥ तस्यास्ति सर्वजनलोचनलोभनीयसौन्दर्यसारसनिवासविलासभूमिः। विद्याविनोदपरिमोदितभूरिसूरिः कल्याण इत्यभिधया तनयोऽभयज्ञः ॥ ३१॥ यस्यापाङ्गतरङ्गिते सुरगवी वक्त्रे च वाक्चातुरी कण्ठे चापि सरस्वती हृदि हरेभक्तिश्च शक्तिर्भुजे। आस्ते पाणितले सदा वितरणश्रीः पादपद्मे नृपः श्रेणीमौलिमणिप्रभा बत कथं स्त्रैणः कुमारोप्यसौ ॥ ३२ ॥ सर्वविद्याविदोप्यस्य कल्याणगुणशालिनः। अभिन्यविशतातीव तीक्ष्णव्याकरणे मतिः ॥ ३३ ॥ रसालंकारसारापि वाणी व्याकरणोज्झिता। श्वित्रोपहतगात्रेव न रञ्जयति सजनान् ॥ ३४॥ कल्याणस्य तनूद्भवस्य नृपतिः कल्याणमूर्तेस्ततः कल्याणी मतिमाकलय्य विषमग्रन्थार्थसंवित्तये। कृष्णं शेषनृसिंहसूरितनयं श्रीप्रक्रियाकौमुदी टीका कर्तुमसौ विशेषविदुषां प्रीत्यै समाजिज्ञपत् ॥ ३५॥ अस्फुटभावा प्रस्फुटदोषाभिहितापसिद्धान्ता। असमर्थकपदबन्धा नैषा परमप्यभावयत्यर्थम् (?) ॥ ३६॥ तस्माद्वीरवरान्महीशमुकुटालंकारचूडामणेः । प्राप्याज्ञां सुचिरं विभाव्य च हृदि ज्योतिर्दृसिंहाभिधम् । संतोषाय विशिष्य भाष्यविदुषां बोधाय दुर्मेधसां व्याख्याम्याकरसाक्षिकं सुविशदं तां प्रक्रियाकौमुदीम् ॥३७॥ 13 [ Des. Cat., Vol. II]
SR No.018127
Book TitleDescriptive Catalogue Of Manuscripts Vol 02 Part 01
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1938
Total Pages370
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy