SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 967 'Grammar नानाजन्मशतार्जितेन तपसा गङ्गाधराराधनैर्य श्रीमाननभाभिधानसुभगे प(पा)तिव्रते ज्योतिषि । लेभे वीरवरं सुतं द्विजवरं प्रह्लादभीष्मार्जुनप्राया भागवता न यं तुलयितुं ब्रह्मर्षयो वा क्षमाः ॥२०॥ कामो वामदृशां निधिर्नयजुषां कालानलो विद्विषां स्वःशाखी विदुषां गुरुर्गुणवतां पार्थो धनुर्धारिणां। लीलावासगृहं कलाकुलभुवां कर्णः सुवर्णार्थिनां श्रीमान् वीरवरः क्षितीश्वरवरो वर्ति सर्वोपरि ॥२१॥ यस्य प्रौढतरः प्रतापतपनः प्रत्यार्थपृथ्वीभृतां कीर्ति सर्वगुणाश्रयामुदवहत् संयोजितां वेधसा। लाजा मेरुहिरण्यरेतसि हुताःक्ष्मामण्डलस्थाण्डले यस्मादुत्पतिताः स्फुरान्ति परितस्तारामिषाद्भरिशः॥ २२ ॥ सपी सा यत्कृपाणी गुरुभुजभुजगासंगतः संगरादी सद्यः कृत्तारिकण्ठच्युतरुधिररजोयोगमभ्यावहन्ती। दृप्यदानाम्बुपूरोत्कटकरिटिघटागण्डशैलेषु लग्ना सूते सद्यः किलाण्डानतिविमलगलद्भरिमुक्ताच्छलेन ॥२३॥ गङ्गादासात्मजन्मक्षितिरमणमणेः कीर्तिगङ्गानुषङ्गाः श्वेतन्ते स्फीतफेनस्तबकसमरुचो हारिदश्वाः किलाश्वाः। द्राग्वीक्ष्यामून् बिडीजाः पृथुपुलकभरः पार्थमाशङ्कमानो विष्वग्बाष्पायमाणान्यनुवहातिमुदा लोचनानां शतानि॥२४॥ यद्वाणी वाणिनीनामधरमधुरसद्रोहिणी रोहिणेयः पीत्वा हालावहेलां रचयति सुचिरं सम्मदाकूणिताक्षम् । किंचिद्राक्षासवृक्षाक्षररसनकरस्वस्तरुद्राक्षमाल: सोत्कण्ठं नीलकण्ठोप्यनुपठति शिरस्ताण्डवाड म्बरााण ॥२५॥ मौलो मन्दारदामभ्रमदलिपटलीकाकलीं श्रोणिबिम्बे कूजत्काञ्चीकलापं चरणकमलयोर्मजुमजीरसिजाम् । उत्संगे कीरगीतं स्तनभुवि मसृणं वल्कीपञ्चमं वा यत्काव्ये दत्तकर्णी शिवशिव मनुते भारती भारमेव ॥ २६ ॥ इन्दु निन्दति चन्दनं न सहते विद्वेष्टि पढेरुहं हारं भारमवैति नैव कुरुते कर्पूरपूरे मनः। स्वर्गङ्गामवगाहते हिमगिरि गाढं समालम्बते यत्कीर्तिविरहातुरेव न मनागेकत्र विश्राम्यति ॥ २७॥
SR No.018127
Book TitleDescriptive Catalogue Of Manuscripts Vol 02 Part 01
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1938
Total Pages370
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy