SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ B. Paniniya School लज्जालोलदृशां विलासवलभीवातायनप्रस्थितैईग्भङ्गिभ्रमरीभरव्यतिकरैरद्यापि नीलं नभः ॥ १० ॥ साग्नयोsपि किल शीतलशीला विश्रुता अपि बहुश्रुतवन्तः । पण्डिता अपि जडाः परिवादे श्रोत्रिया इह सदा निवसन्ति ॥ ११ ॥ सद्धर्मकर्मपरिकर्मणमर्मविज्ञा विज्ञानवेदविषया विषयानपेक्षाः । साक्षादिवात्र विधयो निधयो गुणानां जातु द्विजा नहि निजाद्विचलन्ति मार्गात् ॥ १२ ॥ तत्र ब्राह्मणमण्डलेऽतिविपुले सत्कर्मभिर्निर्मले वाल्मीकिप्रतिवेशवासवसतो विज्ञातसर्वागमे । आसीद्भूपधरः परः स्मरहरः सच्छोत्रियाणां वरः शौर्योदार्यविवेकधैर्यनिलयो भूपालभूषामणिः ॥ १३ ॥ शिवः कपाली मघवापि गोत्रभि चन्द्रः कलङ्की तपनो विकर्त्तनः । शेषोऽपि चाशीविषवंशसंभवस्तत् केन लोकेऽयमिहोपमीयताम् ॥ १४ ॥ प्रत्यर्थिक्षितिपालबालवनिता सीमन्तसिन्दूरकालुण्टाकः प्रकटप्रतापतपन प्रोद्भासिताशा मुखः । त्रैलोक्योत्तरकर्मनिर्मितिपरिप्राप्तप्रतिष्ठस्ततः संभूतः कलिकालकल्मषपरीहाराय नारायण. ॥ १ ॥ यः सिंहासनमास्थितोऽपि सहजं पद्मासनं सेवते यो मालाः परिवर्तयत्यविरतं शालाविशालाः श्रिताः । योगं यः श्रयति क्षितिक्षिदुचिताचारे नियोगं चरन् वैदहं जनकं व्यजेष्ट नपरं लोकानशेषानपि ॥ १६ ॥ तस्मादाविरभूत्प्रभूतविभवो गाङ्गेयमेयोर्जितो गङ्गादास इति प्रसिद्धमहिमा गङ्गां समाराध्य यः । स्वामाख्यामकृतार्थयज्जगदलंच क्रेऽन्यचक्रेश्वरानक्लेशादजयज्जयैकनिलयः शक्रेऽप्यवज्ञापरः ॥ १७ ॥ हरिहरपदपद्मद्वन्द्वनिर्द्वन्द्वभक्ि प्रतिहतदुरितौघोल्लाघजङ्घालकीर्तिः । प्रतिदिवसवितीर्णस्वर्ण संप्रीणितार्थव्रजविहितशुभाशीः शीलिताशेषकामः ॥ १९ ॥ 95
SR No.018127
Book TitleDescriptive Catalogue Of Manuscripts Vol 02 Part 01
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1938
Total Pages370
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy