________________
94
Grammar
वृन्दारण्यमहीषु वंशनिनदामन्दामृतास्वादनानिःस्पन्दानि दुधुक्षयेव सुरभीवृन्दानि संदानयन् । मन्दारद्रमवीथिकासु विहरन् वन्दारुवृन्दारकद्वन्द्वस्तुत्यभिनन्दितोऽस्तु जगदानन्दाय नन्दात्मजः॥२॥ शेवालश्रेणिशोभां दधति हरजटावल्लयो हन्त यस्यास्तग्रासोल्लासवल्गद्वरशफरतुलां यत्र धत्ते कलावान् । उन्मीलद्भोगिभोगावलिसुभगसिताम्भोजसंभाविताम्भा गङ्गानङ्गारिसङ्गा मम महति विधौ मङ्गलान्यातनोतु ॥३॥
स्फटिकोपलगौरमिन्दुलेखातिलकं लोचनपेयमम्बिकायाः। विपदो विनिहन्तु मे विशाला
निजभालानलदीप्तमाद्यमोजः॥४॥ कलितकमलपुस्तन्यस्तहस्ताग्रमुद्रा दिशतु लिखनशुद्धिं शारदा सारदा नः। प्रतिवदनसरोजं या कवीनां नवीनां वितरति मधुधारां माधुरीणां धुरीणाम् ॥ ५॥ भास्वभूमीवलयतिलके धर्मकर्मप्रसूतावार्यावर्ते सुचरितकृताचार्यके विश्ववन्थे। अन्तर्वेदिर्जयति यमुनाजह्वजाव्याजभाजोर्बाह्वोर्मध्ये हरिगिरिशयोः स्पष्टलक्ष्मेव वक्षः॥६॥ तत्रोदुम्बरहार इत्यभिधया जागर्ति नीवृद्वरः । स्वर्लोकप्रतिबिम्बमम्बरचरैः साशङ्कमालोकितः। यस्मिन्नल्पितकल्पशाखिविभवाः शाखास? श)तोद्भासिताः सेव्यन्ते तरवोऽथ वेदगुरवः प्रत्याशयातैर्द्विजैः॥७॥
ब्रह्मावर्त नाम तत्रास्ति तीर्थ सार्थ पण्यं पूर्वपुण्यैरगण्यैः। यत्संसेव्य प्राप वल्मीकजन्मा
सन्मानाहीं काव्यवाचां समृद्धिम् ॥ ८॥ आस्ते तस्मिन्नमरनगरीगर्वसर्वस्वहारी हारीभूतामलसुरसरित्पत्रपुञाभिधानः । ग्रामः स्वःस्त्रीजनविनिमयीभूतरामाभिरामः कामक्रीडाभवनमवनौ कश्चिदाश्चर्यरूपः॥९॥ यत्केलीभवनोदरे सुरमणिस्पर्धासुबद्धादरा रत्नानां प्रकरा निशास्वपि दिनाद्वैतं समातन्वते।