________________
Grammar केचित् पूर्वनिबद्धसिद्धवचनोपन्यासदक्षाः परे पौर्वापर्यविरोधबोधविधुरा दृष्टाक्षरग्राहिणः। किं तैर्वक्तभिरत्र यः स्वविभवरुद्दष्य पूर्व परानुक्तं वक्ति परे (?) छिनत्ति विषमं व्याख्यात्यसौ दुर्लभः॥३८॥ प्राचां सूचितसूचितार्थगहने वाचां प्रपञ्चे घनश्वेतश्चञ्चलताविमोहविधुरं चिन्तां चिरं चुम्बति। कामं किंतु निरस्तविस्तरमिह प्रस्तुत्य मूलं शिशुत्रासान्यासि मया मितं हितमिहानुक्तं विविक्तं च यत् ॥३९॥ दुस्तर्ककर्कशधियां विदुषां मितोक्त्या निःशेषदोषपरिशोषमृते न तोषः। हन्ताभिनन्दति न मन्दमतिर्बहूक्तौ तत् केन वाणि करवाणि जनानुवृत्तिम् ॥४०॥ कतिचिदुद्धतनिर्भरमत्सराः कतिचिदात्मवचःस्तुतिशालिनः। अहह केपि निरक्षरक्षयास्तदिह संप्रति के प्रति मे श्रमः॥४१॥ अबुधा सुधा बत सुधासरसी सरसीभवद्वचनवीचिचये। मयि साधुसाधनपरे भवतां भवताच्चिराय खलता खलता ॥ ४२ ॥ मात्सर्यमुत्सार्य तथापि चायराचार्यहाई सुजनैर्विचार्य। फणिप्रयुक्ता भणतीविचिन्त्य
चिरं मदुक्तिः परिभावनीया ॥४३॥ भाष्यादिषु न्यायसिद्धमर्थमाश्रित्य सिद्धवत् । व्याख्यास्ये कौमुदीन्यायाननुसंबद्धमाकरात् ॥४४॥
वह्नौ सुवर्णमिव यत् परिशोध्य शब्दालंकारनामनि मया निहितं निबन्धे । उद्धृत्य सारमिदीयमिहोपबद्धं सिद्धान्तशुद्धिविबुभुत्सुजनानुरोधात् ॥ ४५ ॥ हेवाकिभावादिह चेदहंयुदोष मृषा पश्यति निस्तुषेपि । किं तत्र कुर्मो मृदुलं दुकूलं : चेन्मूषको दूषयति द्विषाणः ॥ ४६॥