________________
234.
Jaina Literature and Philosophy
[145. सध्यानरंगात् कृतशुद्धिसंगा
भजंतु सिद्धिं सुधियः समृद्धिं ॥१॥ भगवत्समयोक्तीना(ना)मनुसारेणैष वर्णितो(s)स्ति मया । परमात्मत्वविचारः शुद्धः स्वपरप्रयोधकृते ॥२॥
इति श्रीजिनभक्तिसूरींद्रचरणारविंदसमाराधकैः श्रीजिनलामसूरिभिः संगृहीते आत्मप्रबोधग्रंथे परमात्मतावर्णनो नाम चतुर्थ(:) प्रकाशः ॥ ४॥
नरेंद्रदेवेंद्रसुखानि सर्वा___. ण्यपि (fol. I05' ) प्रकामं सुलभानि लोके ॥ परं चिदानंदपरै(दै)कहेतुः
सुदुर्लभस्तात्त्विक आत्मबोधः ॥१॥ ततो निरस्याखिलदुष्टकर्म
व्रजं सुधीभिः सततं स्वधर्मः॥ समग्रसांसारिकदुःखरोधः
समर्जनीयः शुचिरात्मबोधः॥२॥ इहात्मबोधकजिनवाग्माहात्म्यं यथा
न ते नरा दुर्गतिमाप्नुवंति ॥ न मूकतां नैव जडस्वभावम् ॥
म चांधतां बुद्धिविहीनतां नो
ये धारयंतीह जिनेंद्रवाणीं ॥३॥ जे(ये) जिनवचने रक्ताः श्रीजिनवचनं अये(य/ति भावेन । अमलागतसंक्लेशा भवंति ते स्वल्पसंसाराः॥ (४॥) इति संपन्न समग्रो(5)प्यात्मप्रबोधग्रंथः। यदुक्तमादौ स्वपरोपकृत्यै
सम्यक्त्वधर्मादिचतुःप्रकाशः॥ विभाव्यते(5)सौ शुचिरात्मबोधः
समर्थितं तद्भगवत्प्रसादात् ॥१॥ प्रमादबाहुल्यबशादबुद्ध्या
यत्किंचिदातोक्तिविरुद्धमत्र ॥ प्रोक्तं भवेत् तज्जनितं समस्तं
मिथ्या(s)स्तु मे दुष्कृतमात्मशुद्ध्या ॥२॥ श्रीमदवारजिनेंद्रतीर्थतिलकः सद्भुतसंपन्निधिः ।
संय(ज)ज्ञे सुगुरुः सुधर्मगणभृत् तस्यान्वये सर्वतः ॥