SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 108 Jaina Literature and Philosophy श्रीहीरविजयसूरिस्तत्पट्टविभूषणं प्रशमसदनं । आसीनरपतिराशिप्रणतशिरोरत्नमौलिकृतचर्चः ॥ ४ ॥ तस्यापि शिष्यरत्नं स्वस्तिश्रीविजयसेनसूरिवरः ।। भासील्लब्धमहाब्धिः समरसपात्रं जगद्विदितः॥५॥ तत्पष्टवंशमुक्कामणिरिव तेजस्वितादिगुणयुक्तः। श्रीविजयदेवसूरिः शास्तितमा 'तप'गणं सुगुणः ॥ ६ ॥ यः सौभाग्यगुणेन स्मारयतितमां च शीलगुणयोगात् । जंबूस्वामिनमुच्चैर्जयतात् श्रीविजयदेवगुरुः ॥ ७ ॥ श्रीआनंदविमलगुरुशिष्याः श्रीसहजकुशलविबुधवराः। सिद्धांतहेमनिकथा बभूवुरुद्दामनिवहाः ॥ ८॥ तेषां शिष्या मुख्या वाचकवरसकलचंद्रनामानः । येषां गिरं सुधामिव निपीय भव्याः प्रमोदते ॥ ९॥ श्रीशांतिचंद्रा वरवाचकेंद्रा बभूवुरब्जप्रतिवीरवक्त्राः । शिष्येषु मुख्या बहुषु प्रवीणा स्तेषां गुरूणां गुणभाजनानां ॥ १० ॥ श्रीमज्जंबद्वीपप्रज्ञप्तेवृत्तिरत्नसवितारः। श्रीमत्साहिअकब्बरभूपतिपर्षत्सुलब्धबहुमानाः॥ ११ ॥ श्रीमजिनप्रवचनप्रभावनाकृत्यकरणविधिदक्षाः । भासन् विद्यादानैः शिष्याणां भूयसां च पूज्यतमाः ॥ १२ ॥ तेषां गुरूणां गुणसागराणां प्रसादलेशं समवाप्य चक्रे। अभ्यर्थितः शिष्यगणैविनीतै वृत्तोत्तम वाचकरत्नचंद्रः ॥ १३ ॥ कृत्वा कृपां मयि बुधैः परिशोधनीयं संशोध्य वीतकलुषं परिवाचनीयं । भन्योपकारविधये वसु लेखनीय शिष्यादिपाठनपदैः परिशीलनीयं ॥१४॥ युगमुनिरसशशि( १६७४)वर्षे मासे विजयदशमिकादिवसे । वारे विधौ च विदधौ वाचकवररत्नचंद्र इति चरितं ॥ १५॥
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy