________________
402.1
Ends. fol.92b
The Svetambara Works
समजनिष्ट विशिष्यकृतादरः सुकृतकर्मणि निर्मलदर्शनः । पदयुगं प्रणिपत्य महामतिर्निजकथामजगाम महर्द्धिमान् ॥ ७८ ॥
श्रीशांतिचंद्रवरवाचकदुन्धसिंधुलब्धप्रतिष्ठत्ररवाचकरत्नचंद्रः ।
श्रीविष्णुपुत्रचरितं ललितं चकार
सर्गोऽत्र सप्तदशमान इहापरुद्धिं ॥ ७९ ॥
अथ प्रशस्तिः
श्रीवीरशिष्यो गणभृत् सुधर्मा श्रीद्वादशांगीसमलब्धमर्मा ।
इति फतेपुरस्थैः पातसाहि श्रीअकब्बरैः श्रीगुरुदर्शनार्थसमाहूतभट्टारकश्री५ श्रीहीरविजयसीरैः सह विहारिणां स्वयंकृतकृपारसकोशग्रंथ श्रावणरंजितपातसाहिश्रीअकब्बराणां श्रीहीरविजयसूरिनाम्ना कारित 'जिजीया - to करनिवारणस्फुरन्मानानां तथाकारितषाण्मासिकजीवाभयदानप्रधानस्फुरन्मानानां श्रीजंबूद्वीपप्रज्ञप्तिप्रमेयरत्नमंजूषा नामबृहद्वृत्तिकृतां तातसाहिश्रीअकब्बरदापितोपाध्यायपदानां महोपाध्याय श्री ५ श्री शांतिचंद्रगणीनां सकलशिष्यमुख्योपाध्यायश्रीरत्नचंद्रविरचिते श्रीभक्तामरस्तव श्रीकल्याणमंदिर-श्रीदेव-प्रभोश्रीमत्धर्मस्तव-श्रीऋषभवीरस्तव - श्रीकृपारसकोश- 15 श्रीअध्यात्मकल्पद्रुम-श्रीनिषेध-श्रीरघुवंशमहाकाव्य वृत्तिनव भगिनीनां लघुभ्रातरि श्रीप्रद्युम्नचरिते महाकाव्ये बलदेवदीक्षातपःसाधनपंचमस्वर्गगमनप्रद्युम्नशांबादिकेवलज्ञानमुक्तिगमनवर्णनो नाम सप्तदशः सर्गः ॥ तत्समाप्तौ च संपूर्ण प्रद्युम्नचरितं ।
श्रीमत् 'तपा' गच्छमहाद्रुमूल
मासीद् भवांभोनिधियानपात्रं ॥ १ ॥
आसीद् गुरुस्तस्य परंपरायां
साधुक्रियामार्गविकाशभास्वान् ।
'आनंद' पूवों 'विमला 'ग्रसूरि
र्बुद्ध्या समानीकृतदेवसूरिः ॥ २ ॥
107
तत्पट्टगगनरत्नं सूरिश्रीविजयजदानसूरिवरः । 'आसीद् भाग्यनिधानं गुणगणनिलयः क्रियापात्रं ॥ ३ ॥
S
20
25
30