SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ 478 Jaina Literature and Philosophy | III2. अस्तीह सद्रत्ननिवासाधिष्ण्य मुक्तप्रपंचावृतभूमिपीठः । श्रीमाननेकांगिगणाश्रयश्च सन्मोढवंशः सरिदीशतुल्यः ॥२ तस्मिन्वंशे प्रसृतसुयश पूरिताशाचतुष्को दक्षत्वाद्यैर्वरगुणगणैरन्वितः श्रावकोऽभूत् । सम्यक्त्वाख्यो वरगुरुगिरा(5)पास्तमिथ्यात्वमोहः शांत्याह्वानो जिनपतिपदांभोजयुग्मद्विरेफः ॥३॥ शीलालंकृतकाया दानदयोयुक्तमानसा सततं । जिनपूजारतचित्ता यशोमतिस्तस्य वरपत्नी ॥ ४॥ ताभ्यामादिजिनेंद्रपूजनविधाबासक्तचित्तोऽनिशं सूनुः सर्वजनोपकारकरणप्रहः कृपामंदिरं । नित्यं सव्रतिवर्गदाननिरतो मानादिदोषोज्झितो गांभीर्यादिगुणौघलब्धमहिमा प्रद्युम्नसंज्ञोऽजनि ॥ ५॥ इतश्च ॥ इहैववंशे जिनपादभक्तः सुश्रावको वोसकसंज्ञकोऽभूत् । सुधर्मकर्मोद्यतमानसा च तस्याग्रयभार्याऽजनि सेसिकाख्या ॥ ६॥ तस्याः साहडसंज्ञकः सुचरितः सूनुर्महात्मा(s) भव च्छ्रेष्ठा चारुचरित्रलक्षणवती पुत्री च लक्ष्मींगिता । या लक्ष्मीरिव केशवस्य दयिता प्रद्यम्ननाम्नो गृहे विख्यातात्मगुणोत्करेण जनताचेतश्चमत्कारिणा ॥ ७ ॥ अपत्यसप्तकं तस्या बभूव गुणमंदिरम् । सुतास्त्रयो महात्मानश्चतस्रः पुत्रिकास्तथा ॥ ८॥ ज्येष्ठः सूनुरुदारतादिभिरिह प्राप्तप्रसिद्धिर्गुणे राग्रयैराम्रयशो(5)भिधो जिनमहव्यासंगतन्निध्व(?)धीः । स्वच्छंदं विचरन वरेण्यकरिवद्यः कीर्तिग(गा?)हतैः सहानासवलिप्सयार्थिमधुपव्रातैः सदा सेव्यते ॥ ९ ॥
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy