SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 118 Grammar श्रीदुर्लभेश घुमणेः पादा सुषुविरे न कैः । लुलद्भिर्मेदिनी पालैर्वालिखिल्यैरिवाग्रतः ॥ ११ ॥ प्रतापतपनः कोपि मौलराजेर्नवोभवत् । रिपुत्रीमुखपद्मानां न सेहे यः किल [:] श्रियं ॥ १२ ॥ कुर्वन्कुंतलशो ( शैथिल्यं मध्यदेशं निपीडयन् । अंगेषु विलसन्भूमेर्भर्त्ताभूद्भीमपार्थिवः ॥ १३ ॥ श्री भीमपृतनोत्पातरजोभिर्वैरिभूभुजाम् । महो चित्रमवर्धत ललाटे जलबिंदवः ॥ १४ ॥ कर्ण च सिंधुराजं च निर्जित्य युधि दुर्जयम् । श्री भीमेनाधुना चक्रे महाभारतमन्यथा ।। १५ । दुर्योधनोर्वीपतिजैत्रबाहुर्गृहीत चेदीश करो ऽवतीर्णः । अनुग्रहीतुं पुनरिंदुवंशं श्रीभीमदेवः किल भीम एव ॥ १६ ॥ अगणित पंचेषुबलः पुरुषोत्तमचित्तविस्मयं जनयन् । रामोल्लासन मूर्तिः श्रीकर्णः कर्ण इव जयति ॥ १७ ॥ अकृत्वासननिर्बंधमभित्वा पावनीगतिं । सिद्धराजः परपुरःप्रवेशवसितां ययौ ॥ १८ ॥ मात्रयाध्यधिकं किंचिन्न सहते जिगीषवः । इतीव त्वं धरानाथ धारानाथमपाकृथाः ॥ १९ ॥ क्षुण्णाः क्षे(क्षो) णिभृतामनेककटका भग्नाथधारा ततः (१) कुंठः सिद्धपतेः कृपाण इति रेमा मंसत क्षत्रियाः । भारूढप्रबलप्रतापदहनः संप्राप्तधारश्चिरात् पीत्वा मालवयोषिदश्रुसलिलं हंतायमेधिष्यते ॥ २० ॥ श्रीविक्रमादित्यनरेश्वरस्य स्वया न किं विप्रकृतं नरेंद्र | यशांस्यद्दाषीः प्रथमं समंतात् क्षणादनांक्षीरथ राजधानीं ॥ २१ ॥ मृदित्वाद कंडुं समरभुवि वैरिक्षितिभुजां भुजादंडे बद्धा कठिननवखंडां वसुमतीं । देवं साम्राज्ये विजयिनि वितृष्णेन मनसा यशो योगीशानां पिबसि नृप तत्केन सदृशं ॥ २२ ॥ जयस्तंभात्सीमन्यधिजलधिवेलं निहितवान् वितानैर्ब्रह्मांड श्रुविगणगरिष्ठै पिहितवान् । यशस्तेजोरूपेरलिपत जगत्यर्धघुसृणैः कृतो यात्रानंदो विरमति न किं सिद्धनृपतिः ॥ २३ ॥ भूमिं कामगवि स्वगोमयरसैरासिंच रन्नाकरा - मुक्ता स्वस्तिकमा तनुध्वमुडुप त्वं पूर्णकुंभीभव |
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy