________________
C. Hemacandra
Ends -
अहं ॥ अहं इत्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकं सिद्धचक्रस्यादिबीजं सकलागमोपनिषद्भूतमशेषविघ्नविघात - [ निम्न ] मखिलदृष्टादृष्टफलसंकल्पकल्प
मोपमा(शास्त्राध्यय ) नाध्यापनावधि प्रणिधेयं ॥ प्रणिधानं चानेनात्मनः सर्वतः संभेदस्तदभिधेयेन शा ( चा ) भेदः ॥ वयमपि चैतच्छास्त्रारंभे प्रणिदमहे । अयमेव तात्विको नमस्कार इति ॥ सिद्धिः स्याद्वादात् ॥ स्यादित्यव्ययमनेकांत etc.
- उत्सर्गादपवादः । अपवादात्कचिदुत्सर्गोपि । नानिष्टार्था शास्त्रप्रवृत्तिरिति ॥ इत्याचार्यश्रीहेमचंद्रविरचितायां सिद्धहेमचंद्राभिधाना (यां) स्वोपज्ञशब्दानुशासनवृत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः ॥ कालिमानं तनोति ॥ २८ ॥
छ ॥
117
The verses given at the end of the several are collected below. ( They are also given in Dr. Bühler's " Ueber das Leben Jaina mönches Hemacandras " Notes).
हरिरिव बलिबंधकर स्त्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः ॥ १ ॥ पूर्वभवदारगोपीहरणस्मरणादिवज्ज्वलितमन्युः । श्रीमूलराजपुरुषोत्तमोवधीहुर्मदाभीरान् ॥ २ ॥ चक्रे श्रीमूलराजेन नव ( : ) कोपि यशोर्णवः । परकीर्त्तिश्र (ख) वंतीनां न प्रदेशमदत्त यः ॥ ३ ॥ सोत्कंठमंगलगनैः (णैः) कचकर्षणैश्च वक्त्राब्जचुंबन [न] रदक्षतकर्मभिश्च । श्रीमूलराजहतभूपतिभिर्विलिप्सुः
संख्ये च खेपि च शिवाश्च सुरस्त्रियश्च ॥ ४ ॥ प्रवृज्जातेति हे भूपा मा स्म त्यजत काननम् । हरिः शेतेऽत्र न त्वेष मूलराजमहीपतिः ॥ ५ ॥ मूला शू ( ? ) यते शास्त्रे सर्वकल्याणकारणं । अधुना मूलराजसु (स्तु) चित्र (त्रं) लोकेषु गीयते ॥ ६ ॥ मूलराजासिधारायां निमग्ना ये महीभुजः । उम्मजंतो विलोक्यंते स्वर्गगंगाजलेषु ते ॥ ७ ॥ श्रीमूलराजक्षितिपस्य बाहुर्बिभर्त्ति पूर्वाचल शृंगशोभां । संकोचयन्वैरिमुखांबुजानि यस्मिन्नयं स्फूर्जति चंद्रहासः ॥ ८ ॥
असंरब्धा अपि चिरं दुःसहा वैरिभूभृताम् । चंडाश्चामुंडराजस्य प्रताप शिखिन ( : ) कणाः ॥ ९ ॥ श्रीमदुर्लभराजस्य प्रतापः कोपि दुःसहः 1
प्रसरवैरिभूपेषु दीर्घनिद्रामकल्पयत् ॥ १० ॥
-