SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Minuscripts Pt. XIII ( 1ppendix) 377 प्रकरणमारिप्सुराचार्यो मंगलादिप्रतिपादिकां गायामाह ॥ बंधविहाण विमुक्कं. Closing संप्रति षडशीतिसंख्यगाथाप्रमाणत्वेन यथात्वर्थे षडशीतिकशास्त्र समर्थयन्नाह । इयसुहमच्छवियारो इत्यादि पूर्वोक्तप्रकारेण सूक्ष्मो मंदगत्यगम्योयोऽर्थः शब्दाभिधेयं तस्य विचारणं लिखितोऽक्षरविन्यासीकृतः । पंचसंग्रहादिशास्त्रे इति शेषः। करित्याह । देवेन्द्रसूरिभिः। करालकलिकाल पातालतलावमज्जद्विशुद्धधर्मधुरोद्धरणधुरीणश्रीमज्जगच्चन्द्रसूरिक्रमकमलचचरीकैरिति ॥ इति देवेन्द्रसूरिविरचिता स्वोपज्ञषडशीतिटीका समाप्ता । Colophon: विष्णोरिव यस्य विभोः पदत्रयी व्यानशे जगन्निखिलम् । सूत्रार्थसार्थदेशी य श्रीवीरो जिनो जयतु ।। कुदोज्ज्वलकीर्तिभरः सुरभीकृतसकलविष्टपाभोगः । शतमखशतनतपादः श्री गौतमगणवर पातु ।२। तदनुसुधर्मस्वामी जंबूप्रभवादयो मुनिवरिष्ठाः । श्रुतजलनिधिपारीणाः भूयांसः श्रेयसे संतु ।३। ततः प्राप्ततपाचार्येत्यभिख्यो भिक्षुनायकाः । समभुवन् कुले चान्द्रे श्रीजगच्चन्द्रसूरयः ।४। जगज्जनितबोधानां तेषां शुद्धचरित्राणाम् । विनेयाः समजायंत श्रीमद्देवेन्द्रसूरयः ।। स्वान्ययोरुपकाराय श्रीमद्देवेन्दसूरिणा । षडशीतिटीकेयं सुखबोधा विनिर्ममे ।। विबुधवरधर्मकीतिः श्रीविद्यानन्दसूरिमुख्यबुधः । . स्वपरसमयककुशलस्तदैव संशोधिता स्वयं ॥७॥ यद्गदितमल्पमतिना सिद्धांतविरुद्धमिह किमपि शास्त्र । विद्वद्भिस्तत्त्वज्ञः प्रसादमाधाय तत् शोध्यम् ।। षडशीतिकशास्त्रमिदं विवृण्वता यन्मयाजितं सुकृतम् । तेनोऽस्तु भव्यलोकः सूक्ष्मार्थविवरणे चतुरः ।। इति षडशोति टीका । ग्रन्थान. २००० । संवत् १६४६ वर्षे फाल्गुन शुक्लद्वादश्यां श्रीलाभपुरनगरे पातिसाहिश्रीप्रकब्बरप्रदत्तयुगप्रवानपदसमलंकृतखरतरगच्छेशभट्टारकयुगप्रधानश्रीजिनचन्द्र PostColophon :
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy