SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 362 Rajasthan Oriental Research Institute, Jodhpur(Bikaner-Collection) 68/13614 योगशास्त्रम्-सवृत्ति Opening : ॥ ६० ॥ अहं ॥ पुरप्रवेशस्यापरमाथिक्यमाह ।। इह चायं परपुरप्रवेशश्चित्रमात्रकृत् । सिद्ध नवा प्रयासेन कालेन महतापि हि ॥१॥ स्पष्टः । कुक्ष्या जित्वापि पवनं नानाकारणः क्लेशका (क)रणः । नाड़ीप्रचारमयत्तं विधायापि वपुर्गतं ॥२॥ अश्रद्धयं परपुरे साधयित्वापि संक्रमम् । विज्ञानकप्रसक्तस्य मोक्षमार्गो न सिद्धयति ।।३।। स्पष्टौ ॥ प्राणायामस्ततः कश्चिक्षश्रितो ध्यान सिद्धये । इति यदुक्तं श्लोकद्वयेन प्रतिक्षिपति ॥ Closing : तन्नाप्नोतिमनःस्वास्थ्यं प्राणायामः कथितं । प्राणस्यायमेन पीड़ा तस्यां स्याच्चित्तविप्लवः ।।४।। पूर्वेभ्यो योगशास्त्रेभ्यो विलक्षणं योगशास्त्रं । शुश्रूसमाणोत्यर्थमभ्यथित. वान् । ततस्तदभ्यर्थनतोवचनस्यागोचरोऽपि उपनिषगिरां पथि निवेशितवान् आचार्यश्रीहेमचन्द्र इति शुभं ।। श्रीचौलुक्यक्षितिपतिलकप्रार्थनाप्रेरितोऽहं, तत्वज्ञानामृतजलनिधेर्योगशास्त्रस्य वृत्ति । स्वोपज्ञस्य व्यरचमिमां तावदेषा च नंद्याद्यावज्जैनप्रवचनवनी भूर्भुवः स्वस्त्रयीय ॥१॥ संप्रापियोगशास्त्रात्तवृत्तेश्चापि यन्मया सुकृतं । तेन जिनबोधिलाभप्रणसीभव्यो जनोभवतात् ।।२।। Colophon: इति परमाईश्रीकुमारपालभूपालशुश्रूसिते आचार्यश्रीहेमचन्द्रविरचिते अध्यात्मोपनिषन्नाम्नि संजातपट्टबंधे श्रीयोगशास्त्रे स्वोपज्ञं द्वादशप्रकाशविवरणं समाप्तं ।। ग्रंथान१३५ ।। PostColophonic : संवत् १५८३ वर्षे मार्गशीर्ष वदि अष्टम्यां रवी श्रीजेसलमेरुमहादुर्गे श्री वृहत्खरतरगच्छे श्रीजिनमाणिक्यसूरिविजयराज्ये श्रीसागरचन्द्रसूरीश्वराणां शिष्य वा० महिमराजगणिना शिष्य वा० दयासागरगणीनां विनेय वा० ज्ञानमन्दिरगणीन्द्राणामंतेवासिना श्रीदेवतिलकोपाध्यायेनालेखि । शुभं भवतु ।।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy