________________
252 | Rajasthan Oriental Research Institute. Jodhpur (Jodhpur-Collection)
Colophon:
इति श्रीशाब्दिकमहामहोपाध्यायपुरुषोत्तमदेवप्रणीता हारावली पर्यवसिता । सम्पूर्ण ।
1502/31150 कविकल्पलता
Opening
॥ श्रीशक्ति गणेशाय नमः ।। गङ्गावारिभिरुक्षिताः फणिफणैरुत्पल्लवा तच्छिखारत्नैः कोरकिताः सुधांशुकतया स्मरैकपुष्पश्रियः । आनन्दाश्रुपरिप्लुताक्षिहुतभुग्धूमैमिलद्. दोहदानाल्पं कल्पलताःफलंददतु वोभीष्टं जटा धूर्जटेः ॥१। . मालवेन्द्रमहामात्यश्रीमद्वाग्भटनंदनः देवेश्वरः प्रतनुते कविकल्पलतामिमाम् ।।२।। प्रतिभाभावितात्मानः कवित्वं केन कुर्वते ।। अन्यत्र कविताधानकुशलाः विरलाः पुनः ।।३।। यदन्यैर्वर्त्मनक्षुरां तत्र संचरतो मम ॥ पदे प्रसवलतः संतः सन्त्ववलम्बनम् ।।४।।
कविशिक्षा शतं वीक्ष्य कवीन्द्रानुजीत्य च ॥ निबद्ध यं मया धीरा त्वरितश्लोकसिद्धये ॥५॥
सुवृत्तरम्यस्तबका सदा परिशीलता ।। कविकल्पलता सेयममला परिशील्यता ॥६॥
शब्दश्लेषकथाख्याश्चत्वारस्तबका इह ।। ते चतुः पञ्चषट्सप्तकुसुमेरन्विताः क्रमात् ।।७।।