________________
236
|
Rajasthan Oriental Research Institute, Jodhpur. (Jodhpur-Collection)
लिङ्गबाणादिकं कृत्वा शतधा पञ्चधा त्रिधा । द्विधा वारोप्यते पीठे यत्र स्थापनमुच्यते । अभिन्नपिण्डिकं लिंगं रत्नं वा लोहजादिकम् । त्रिधा संस्क्रियते मन्त्रैस्तत् स्थितिस्थापनं मतम् ।।११०।।
इति शिवस्थापनविचारः। श्रीलक्ष्मीनारायणो जयति भवानीश कार्यार्पणमस्तु ।।१०००१।।
1361/30181 गीतगोविन्द 'रसिकप्रिया' वृत्तियुत् ॥ श्रीगणेशाय नम : ॥ भवानीशंकराभ्यां नमः ।।
Opening:
कल्याणं कमलापतिदिशतु मै यः कौस्तुभे राधया, वीक्ष्य स्वप्रतिबिम्बं तं प्रति युवत्येषेति तर्काकुलम् ।। प्राश्लेषोन्मुखयापि मानपरयामन्वानया कैतवं, तिर्यग्वक्रितकन्धरं विलितयामासूयमालोकितः ॥१॥ सो व्यान्मामरविन्दनाम उदयघनाभिपद्मालया, पद्मापद्मविमीलमीलनविधिप्रावीण्यतन्नेत्रयोः । योगादर्धनिमीलितांबुजवशात्सम्भोगभोगेतरावस्थाद्वन्द्वभवानुभूतिजनितः क्रीडासुखान्यन्वभूत् ।।२।।
दिश्यान्मेऽर्द्ध शिवातनुः स भगवान्नित्योदितां सपदं, शम्भुर्विश्वजयश्रियः परवशीकारैकसत्कार्मणं ॥ पत्रकाङ्गनवीनविभ्रमरसादेकांगगुप्तेरचमास्वादान्सम्भवदद्भुतकपरमाजागत्ति हैमौद्रिजा ॥३॥