SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manucripts, Rt. XIV(Appendix) 1 229 निर्मलं पुन: किं भूतं चक्ष ः पुरस्तात् प्राच्यां दिशि उच्चरत् उद्गृच्छत् उदयत् तस्योपस्थानं कृत्वा वयं शरदः वर्षस्य शतं शतवर्षाणि पश्येम एवं च शरदः शतं च जीवेम शरदः शतं श्रृणुयाम शरदः शतं प्रब्रु वाम प्रकर्षण व वाम शरदः शतमदीनाः उद्भूताः स्याम किंचन केवल शरदः शतं किन्तु शरदः शतादपि भूयः अधिकं . पश्येमेत्यादि सर्वत्रान्वेति तेजोसोति अस्यार्थ: गायत्रीं स्तौति ।। त्वं तेजः असि शुक्रमसि अमृतमसि धाम गृहमसि नाम अभिधानमसि देवानामनाघृष्टमुत्कृष्टं प्रियं तत्वमेवासि देवयजनं देवा इज्यं तेऽनेनेति देवयजनं मन्त्रादि तत्त्वमेवासि । गायत्र्यसीति अस्यार्थः त्वं गायत्री प्रसि गायन्तं त्रायते इति गायत्री एकपदी द्विपदी त्रिपदी चतुष्पदीति स्वरूपकथन अपदासि न पद्मसे ज्ञापयति एतद्देवाह नहि पद्मसे किंच ते तुरीयाय पदाय स्वरूपाय ब्रह्मविष्णुशिवभिन्नाय ब्रह्मस्वरूपायेति यावत् यद्वा विराट हिरण्यगर्भादिपकारणोपाधित्रयहीनाय ईशपदाय यद्वा वैखरीरूपाय व्याप्ताय नमः अस्त्विति शेषः पदाय किं भूताय दर्शिताय दर्शनीयाय ध्यानेनेति शेषः पुनः किं भूताय पदाय परो रजसो रजसः अपर भूताय शुद्धसत्वरूपायेत्यर्थ. ।। इति शत्र नमिश्रविरचितायां मन्त्रार्थदीपिकायां सन्ध्यामन्त्रव्याख्या समाप्ता। संवत् १६३१ का मिति पौष सुदि ११ रविवार लिखित रामानुजदास । Colophon ; Post-colophonic + + ५
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy