SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) ( 227 सूर्यग्रहणकालेतु नान्यदन्वेषितं भवेत् सूर्यग्रहणकालेन समो नान्यः कदाचन ।। अत्र यद्यत्कृतं सर्वमनन्त फलदं भवेत् । न मासतिथिवारादिशोधन सूर्यपर्वणि ।। ददातीष्ट च गृह्णीयात्तस्मिन्काले गुरोर्नरः । सिद्धिर्भवति मन्त्रस्य विनाभ्यासेन वेगत ॥ इति चिन्तामणिकालिकोद्भवयोः सूर्यग्रहणस्यैव विधायकवचनदर्शनात् । चन्द्रग्रहे च या दीक्षा वनचारिणां । जनकस्य तु या दीक्षा दारिद्रय सप्तजन्मनि योगिनीतन्त्रे । चन्द्र ग्रहणे दीक्षानिषेधवचनदर्शनात्प्रागुक्तरजनीमन्त्रदान निषेधवचनाच्चेति । सूर्यो परागकालोप्युपरागसाधारणतया नात्यन्तप्रशस्त इति ज्ञेयं । किंतु चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये मन्त्रस्य कथनमुपदेशः स उच्यते । इति कालिकोद्भववचनान्मन्त्रान्तरेषु विधिवद्दीक्षितानां कौतुकार्थमन्त्रग्रहणेच्छा चेद्भवति तदा निजगुरोरेव सकाशाच्चन्द्रसूर्यग्रहणकालोप्युपदेशरूपतो मन्त्रग्रहणे न दोषावह । इति Colophon. स्वामिजगन्निवासात्मजश्रीगोस्वामिजनार्दनविरचितां मन्त्रचन्द्रिकायां दादशः प्रकाशः । समाप्तेय मन्त्रचन्द्रिका । यावत्सूर्यश्च सोमश्च यावत्तिष्ठन्ति देवता।। तावदास्तां धरामध्ये सचिरा मन्त्रचन्द्रिका ।।१।। श्रीरस्तु शुभमस्तु ।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy