SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) [ 217 अधिकृत्य क्रियतेऽर्थाद्विचारो यस्मै तदधिकरणं मीमांसा.. सिद्धान्तः तस्याङ्गानि पञ्च यथाह भट्टः विषयो विषयश्चैव पूर्वपक्षस्तथोत्तरं । निर्णयश्चेति पञ्चाङ्ग शास्त्रेधिकरणं स्मृतम् ।। विषयममुधिकृत्य विचारः क्रियते विषयः विप्रतिपत्यासंशयः पूर्वस्य वादिनोमतं पूर्वपक्षः चादि निरासकं वाक्यमुत्तरं निरासश्चासदुत्तरेणाप्य प्रतीतस्य वादिनः सम्भवतीत्यत निर्णयश्चेति प्रमारूप इत्यर्थः । परिषदाधिकरणं यथा सप्तदशावरा ऋद्धि कामाद्वादशरात्रं सत्रमुपाक्षीरन् य एव यजमानास्त एव ऋत्विज इति श्रूयते सप्तदर्शा वदे निकृष्टा येषां ते सप्तदशकर्तृकं सत्रं भवति य एव यजमाना इति तथा च सर्वैरेव होतव्यमिति पूर्वपक्षे जैमिनिसूत्रसत्रे वर्यो हेतोरन्येषामथालमिति । Closing i अथ तदायुत्कर्षन्यायः उत्कर्षस्य कालं विहाय उत्तरकर्त्तव्यता तथा च यत्कर्म तदादिभूतं तत्स्वकाले कृत्वा स्वं उत्तरकाल कर्त्तव्यं यथा सपिण्डनं स्वकालेऽपराह्न कृत्वा तद्दिवसोयं सांवत्सरिक मध्याह्नाभावेपि कर्त्तव्यं सपिण्डनस्य तदादित्वात् न च तदंतापकर्षन्यायात्सपिण्डनं पूर्वाह्नादौ कृत्वा सांवत्सरिकं मध्याह्न क्रियता एकस्य कालत्यागे विनिगमनाभावादितिवाच्यं सपिण्डनस्य भावरूपपितृप्राप्तिफलजनकत्वात् भावात्मकफलं तू मुस्यकाले नैव भवति सांवत्सरिकस्य प्रत्यवायपरिहारमात्रार्थकत्वेन गौपाकालेपि संभवात्। अत्र केचित् तेनैव च सपिण्डत्वं तेनैवाब्दिकमिष्यत इति वचनात् सपिण्डनात्परं सांवत्सरिकं कर्त्तव्यमिति वदन्ति । तत्र असंक्रान्तेपिकर्त्तव्यमाह्निकं प्रथमं द्विजैः तथैव मासिकं पूर्व सपिण्डीकरणं
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy