SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 210 1 Rajasthan Oriental Research Institute, Jodhpur. ( Jodhpur - Collection) Opening : 87/31533 सापिण्डय - कल्पलतिकावृत्तियुत || श्रीगणेशाय नमः ॥ नागेश्वरं गुरु नत्वा देवनारायणामिवः । सापिण्ड्यकल्पलतिकां व्याचष्टे प्राकृतनोदिताम् ॥ प्रारिप्सितदुरितशमनाय स्वेण्टदेवता नत्यात्मकं । मङ्गलं शिष्यशिक्षायै व्याख्यातृ श्रोतृणा मनुषं ॥ गतो मङ्गलाय च निबध्नम् चिकीर्षतं प्रतीजानीते । श्रीमद्गजाननषडाननयुक् शिवौ च श्रीविट्ठलम् ।। निजगुरु गुरुमेव नत्त्वा सापिण्ड्यकल्पलतिकां । तनुते विचित्रां देवः सदाशिव इमां शिशुबोधनाय || १ || श्रीमदिति । श्रीसरस्वती बुध्यादिर्वा । गजाननस्यैव श्रीमत्वं विशेषणं । यद्वा श्रीः शोभाविशेष: षड्गुणैश्वर्यं वा विशिष्ट विशेषणं श्रीमत्त्वं । श्रीमती गणेशस्कन्दाभ्यां युक् सम्पदादित्वावे क्विप् योग: सम्बन्धो ययोस्तौ च तौ शिवौ पार्वतीपरमेश्वरौ श्रीमान्विष्णुः स च गजाननश्च तं युक् गित्यादिपूर्ववदिति कश्चित् च श्रीविट्ठलपदोत्तरं योज्यः । गुरुमेव वृहस्पतिमेव एवोऽभेदरूपकः निजगुरु स्वीयगुरु निजपदं स्पष्टार्थ संबंधिशब्दादेव तल्लाभात् । यद्वा ममैव गुरु र्नास्येति सूचनाय तत् । यद्वा स्वा हेरम्बभाविकगुरु सर्वोपदेष्टारमिति यावत् । यद्वा तात्त्विकगुरु परमार्थगुरुमिति यावत् श्रीविट्ठलं च श्रियातत्त्व श्रियायुक्तं विट्ठलाख्यं च नत्त्वा । देवः देवोपाख्यः । सदाशिवस्तदाख्यः भाविन्या अपि बुध्या विषयीकरणादि मामिति निर्देश: । बेन ग्रन्थकरण क्लेशाभावः सूचितः तथा च इमां बुद्धिस्थां विचित्रां विलक्षणां एतेन प्राचीनग्रन्थैरगतार्थता सूचिता सापिण्ड्यकल्पलतिकां सापिण्ड्यस्य समानः एकः मुख्यः पिण्डः देह प्रारम्भको यस्य यस्य वासा सपिण्डस्तद्भावस्तस्य साक्षात्परम्परयावैकशरीरावयवान्वयित्वस्येति यावत् रुढ्या च नाति प्रसङ्ग इति ॥
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy