________________
204 ]
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
स्वपदविमलभक्त्या यस्य तुष्टो रमेशो। जनकजनकथल्हपद्ममेनं नतोऽस्मि ।। ४ ।। जातोऽहमग्रेण मनोरथेन यस्यानुकम्पामृतवृष्टिपुष्टः । पारंगतश्वाखिलदर्शनानां नागेशभट्ट जनक नतोऽस्मि ।। ५ ।। वन्दे भागीरथीमंबां गुणौ रवेव शालिनीं । यत्प्रसादादहं प्राज्ञो संजातो जडधीरपि ।। ६ ।। श्रीमत्का एव कुलाब्धिशीतकरणो विद्या कूलावांनिधिः । श्रीमद्विष्णुपदाश्रितुः सरस गुविद्वच्चकोरप्रियः ।। भट्टश्चन्द्र इमं पितृव्यमभिनम्यानन्तभट्टः सुधीनर्नामा दानविधानसत्सुरतरु व्यारोपयद्भूतले ।। ७ ।।
सन्ति दानविधौ ग्रन्थाः प्रणीताः सूरिभिःखलु । को यस्य महिमावेद्योऽभिज्ञैर्यतिसर्वतः ।। ८ ।। न पाण्डित्यभिमानेन नापि वित्तस्य लिप्सया । निबन्धो रच्यते किंतु किंतु विदुषां परितुष्टये ।। ६ ।। यत्किञ्चिन्मम चाञ्चल्यं च मां तां विचक्षणाः । गुणग्राह्या सदा सन्तो बालस्य पितराविव ।। १० ।। ग्रन्थस्थानि विकीर्णानि नाना दानानि कृत्स्नशः ।। प्रोच्यन्तेऽत्र मया तानि विष्णुप्रीतिमभिप्सता ।। ११ ।। ग्रन्थस्यानुक्रमस्तु प्रोच्यते ज्ञानसिद्धये ।।
आदौ दानं प्रशंसेऽहं तत्स्वरूपनिरूपणम् ।। १२ ।। शिवधर्मे पार्वत्युवाच
देवदेव महादेव लिङ्गदानविधिं वद । लिङ्गदानफलं चापि वद कृपानिधे ।।
Closing :