________________
220 | Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XVII
Closing 1
॥ श्रीगणेशाय नमः । ।
नत्वा गुरु गणपति देवीं त्रिपुरसुन्दरीम्, तंत्रान्यथ समालोक्य ज्ञात्वा गुरुमतंतः ।
युक्त्या च स्वयमारोप्य श्रीगंगाहरिधीमता, आनन्दलहरी तत्त्वं दीपिका क्रियते मुदा ।। १ ॥
इह खलु शक्ति खंडनं विकुर्वतः श्रीशंकराचार्यस्य सर्वाणीद्रियाणि विकुठितान्यासन् । पुनरपि कारुण्यं वारांनिधेर्जगदंबिकायाः कृपयादत्त तद्रूपानेन लब्धस्वभावः सर्वशक्त्यधीनमेवेति निश्चित्य तां स्तौति । तत्र युस्मत् शब्दीय द्वितीयांत षष्ट्यांत पदयोरादौ संबोधनांतपदं बिना स्थितेरसंभवात् । संबोधन पदमाक्षिप्यते । हे शिवे ! इति ।
शिवे ! त्वां प्रणंतु स्तोतुं वा प्रकृत पुण्यः कथं प्रभवति किं प्रभुर्भवति अपितु नः कथं शब्दः किमर्थव्ययः । अव्यया नामनेकार्थत्वात् । त्वां कीदृशीं हरिहरविरिच्यादिभिः श्राराध्यां हरिर्विष्णु
रोरुद्रः विरिंचिब्रह्मा श्रादिना इंद्रादयस्तै राराध्यां सर्वतोभावेन सेव्याम् । अथवा हरिहर विरिचीनामादिरुपाया इछाद्याः शक्तयस्तासामाराध्यां यद्यपि अनंता एव शक्तयस्तथापि ज्ञानशक्ति क्रियाशक्ति इच्छाशक्ति भेदास्त्रिविधा शक्तयः प्राधान्येनोक्तास्ते नास्यास्तुरीयत्वं सूचितम् ।
(मूलपाठ) -
भगवत्या माहात्म्यं वर्णयति ।। सरस्वत्या लक्ष्म्याविधिहरि सपत्न्योर्विजयते, रतेः पातिव्रत्यं शिव्विसपतिरम्येरणवतुसा । चिरंजीवन्नेष क्षपितपशुपाश व्यतिकरः परब्रह्माभिख्यं रसपतिरसंत्वद्भजनवान् ।। १०० ।।
टीका
हे शिवे ! त्वद्भजनवान् यथा कथंचिद्रूपेण त्वच्चर - गार्च को जनः विधिहरिसपत्नः ब्रह्मविष्णुतुल्यः सन् सरस्वत्या लक्ष्म्या