________________
544
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
प्रादौ तावत्काव्यकरणे प्रवर्तमान उग्रसेनतनयो मानाङ्को मङ्गलप्रतिपादनाय शिष्टसमाचारप्रतिपालनार्थं च इष्टदेवतायै विष्णवे नमस्कारमाह
वरदाय. । तस्मै हरये विष्णवे नमोऽस्तु नमस्कारो भवतु । कीदृशाय ? वरदाय वरं वाञ्छितार्थ सेवकाय ददातीति वरदः तस्मै ।। जनो लोको न पतति न गति । क्व ? मोहरये अज्ञानवेगो मूढो न भवतीत्यर्थ । किं कुर्वन् ? यं हरि स्मरन्नपि ध्यायन्नपि तिष्ठतु तावत् पूजादिकं । येन च हरिणा हता दुःखिता सती, क्व ? मनसि चित्त चक्रन्द ऋन्दितवती रुदितवती। कथं ? बहुशो अनेकशः। कासौ ? दितिर्दैत्यमाता, किं कुर्वता ? दहता भस्मीकुर्वता, कि तत् ? दैत्यचक्र दैत्यानां वृन्दं । अवश्यमेव हि पुत्रविनाशे मातुई: खाद् रोदनं भवति ॥१॥
CLOSING:
इत्याह । स हली बलभद्रः प्राह ब्रूते । किं तत् ? इति पूर्वोक्तः, कं प्राह ? तं पीतवाससं हरिम् । कीडशो बलः ? प्रायतनेत्र: दीर्घ नेत्रे यस्य सः । कीदृशं हरि ? प्रत्रस्तं अभीतं । कस्मात् ? कंसासुरात् कंसदानवात् । द्यु प्रायतने । केषां ? पशुमतां गोस्वामिनां । कि कुर्वन्नाह हरिः ? विकरत् विक्षेपयत् । का ? छायां शोभा । केषां ? लाजानां अक्षतानां ? लीलाजानां लीलया जातानि लीलाजानि तेषां । कै: ? सह दशनैः दन्तः सांकं । हासनैर्मल्यदन्तश्च लाजा शोभा जनयन्नित्यर्थः ॥५२॥
वृन्दावनस्य काव्यस्य वृत्तिकृत्वा सुनिर्मलाम् । यजितं मया पुण्यं तेन निर्वान्तु देहिनः ॥१॥
GOLOPHON:
इति श्रीपूर्णतल्लगच्छसम्बन्धि-श्रीवर्तमानाचार्यस्थापित-श्रीशान्ति-सूरि.