SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix ) 543 CLOSING : COLOPHON : OPENING : देशान्तरगमनार्थं, क्व ? काले समये, कीदृशे ? बनाये घना: निविडा अगा वृक्षाः यस्मिन् स तस्मिन् । कै: ? प्रमुदितनदनीलकण्ठैः हृष्टशब्दायमानमयूरी, तथा संचर - मेघनागे संचरन्तः गच्छन्तः मेघनागाः घनगजाः यस्मिन् स तस्मिन् । कस्यां ? व्योमाटव्यां श्राकाशारण्ये । कथं ? प्रतिदिशं दिशं दिशं प्रति वीप्सायां श्रव्ययीभावः । कथं अलं अत्यर्थं । करिणो दिगरण्ये भ्रमन्ति । भ्रमणतोऽन्यामित्युक्तं । कस्मात् ? कामः अनंगः यदा तस्मिन् मेघकाले चापं धनुर्वहति । कीदृशं चापं ? बिस्फुरत् सायकान्तं विस्फुरन्त: धोतमानाः सयकानां वाणानां अन्ताः पर्यन्ताः यस्मिन् तत् समारोपित बाणमित्यर्थः । अतोऽनङ्गभयादियं वदति स्म |१| विद्य. 1 वसंततिलका, 1 विद्युल्लता तडित्वल्ली लसति क्रीडति कम्र अरं शीघ्रम् । कीदृशी ? काञ्चनसन्निभा सुवर्णवरर्णा, तथा भानि नक्षत्राणि न वहन्ति न बिभ्रन्ति । कं ? भारं भार एव भारस्तं भारं । कस्य ? धाम्नः तेजसः । कीदृशानि ? धनवन्ति मेषयुक्तानि । तथा जलदो मेघ उच्चैः महान् अविरतं सततं रसति गर्जति । कीदृश: ? अस्तवारि: मुक्तवारिः । प्रतो हे प्रिये ! वल्लभे ! अस्मिन्समये स प्रवासानुगच्छतस्तव ते परिः शत्रुः चाया न गन्तव्यमित्यर्थः ॥ ३८ ॥ इति श्री पूर्णतल्लगच्छ सम्बन्धि - श्रीवख मानाचार्यस्य पदस्थापित - श्री शान्तिसूरिविरचिता मेघाभ्युदयलघुकाव्यवृत्तिः समाप्ता । 3417-18 / 8051 ( 1 ) & 7186 वृन्दावनकाव्य- टीका वर्धमानं सुधामानं देवेन्द्रः कृतसत्क्रियम् । वर्धमानं महामानं नत्वा देशित सक्रियम् ||१| वृन्दावनादिकाव्यानां यमकैरतिदुविदाम् । वक्ष्ये मन्दप्रबोधाय पचानां वृत्तिमुत्तमाम् ||२॥
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy