________________
542
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
श्रीभिदाशासनस्य श्रियंशोभां विभूति वा शासनस्य दूषणद्वारेण भिन्दन्ति निराकुर्वन्ति ये ते श्रीभिदो बौद्धादयः तेषामाशा मनोरथो अभीष्टकरणता तां अस्यति क्षिपतीति, तत्तथोक्त तस्य सकलपरवादिजिनमत निराकर्तृतिरस्कारस्येत्यर्थः, प्रादेशस्य च । कीदृशस्य ? श्रियं लक्ष्मी हरेभिन्दन्ति तिरस्कुर्वन्ति विदारयन्तीति ये ते श्रीभिदो दानवास्तेषां आशा तां अस्यतीति तत्तथोक्त तस्य निरशेषासुरमनोरथनाशस्येत्यर्थः ।
CLOSING
___ इति. । चन्द्रमा शशी सरति गच्छति । किं ? कर्तुमिव कथयितुमिव । कस्यै ? तस्यै प्रियायै । क्व ? अम्बराध्वनि आकाशमार्गे । किं कृत्वा ? अवध्वा प्रकृत्वा । कां ? रतिं प्रीतिं क्व ? इलाभृति पर्वते अस्ताचले उदयाचले । कथंसरति ? तूर्ण शीघ्र । कथम्भूतः चन्द्रमा ? गदितः उक्तः । कया ? अध्वन्यवध्वा पथिकभार्यया । कस्यां ? यामवत्यां रात्रौ ! कीदृश्यां ? अयामवत्यां दीर्घायां । कीदृशः ? उदीयमानः उदयं गच्छन् कथं ? गदित: ? दीनं दैन्ययुक्त। कर्गदितः ? विविधवचोभिः नानावचनैः । कथमिति आदिकाव्यप्रभृतिपूर्वोक्तवचनैः । कथमित्येवं शेषं पूर्वोक्त ॥२३॥ .
चन्द्रदूतस्य काव्यस्य यथाबोधं कृता मया । वृत्तिर्जनावबोधाय शोधनीया सुपण्डितः ॥१॥
COLOPHON : इति श्री शान्तिसूरिविरचिता चन्द्रदूतकाव्यवृत्तिः समाप्ता । छ ।
3414/8051 (3). मेघाभ्युदयकाव्य-टीका
OPENING :
अथ मेघाभ्युदयकाव्यस्य वृत्तिः क्रियते । तत्र चायं सम्बन्धः-काचिद् वनिता मेघागमसमये प्रियतमं प्रवासं सर्वमिदं काव्यपरिसमाप्तिं यावदाह तत्र चाद्योऽयं श्लोक:- काचित्. काचिदनिर्दिष्टनाम्नी वनिता कान्तं प्रियं वदति स्म उक्तवती । कीदृशं ? बद्धारम्भं विहितप्रारम्भं किमर्थं ? प्रवासाय