SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 523 ज्ञानवैराग्यसम्पन्नो दीर्घायुस्सत्तपोनिधिः । ब्रह्मजीवतदैक्यं यत्तत्पक्षेषु महाबलः ॥१८॥ कान्यकुब्जकुलोद्भूतो रामानन्देति संज्ञिकः । काश्यामेको द्वितीयश्च गौडाचायति कोविदः ।।१६।। जित्वा चकार तं शिष्यं विशिष्टाद्व तपक्षतः । जिवान्न मानयं निन्ये तस्यां तस्थौ नमामि तम् ॥२०॥ रामानन्दमहं वन्दे वेदे वेदाङ्गपारगम् । योगवन्तं च योगीन्द्र राघवार्यप्रसादतः ॥२१॥ तत्पादसेवकः कश्चिद् ब्राह्मणो वेदपारगः । तत्पत्नी पत्युरन्तेहि सतित्वे समुपस्थिता ॥२२॥ तामयाचिन्महायोगी गर्भस्थं देहि पुत्रके । तं दत्वा स्वामिने साध्वी वह्निज्वालां विवेश सा ॥२३॥ स्वाङ्ग ष्ठमानतो नित्यं ववधे शुक्लचन्द्रवत् । संस्कारवान सतत्त्वज्ञो ब्रह्मचर्य व्यवस्थितः ॥२४॥ . अनन्तस्य हरेः साक्षादानन्दो यस्य चेतसि । दुर्वासना न सन्त्यस्मिन् विशुद्ध निर्म लेसदा ॥२५॥ ... अनन्तानन्दविख्यात: प्रपन्नानन्ददो विभुः । नमस्कुर्वे गुरुतं-ज्ञानवैराग्यभूषणम् ॥२६॥ अनन्तानन्तपादाब्जी समाश्रित्य महामुनिः । ऊर्ध्वरेता पयोहारी सार्वभौमै निषेवितः ॥२७॥ गालवस्याश्रमे तस्थौ सदब्जशम्प्रदोहरिः। कृष्णदास इति ख्यातः करुणावारिधिःप्रभुः ॥२८॥ वन्देऽहं तं महान्तं गुरु गोविन्दरूपिणम् । वेदवेदाङ्गतत्त्वज्ञ कल्याणगुणसागरम् ॥२९॥ कृष्णदासपदाश्रित्ये विष्णु दाससमाधिवान् ।। किञ्चित्कालं चकासिरे सत्सेवासु व्यवस्थितः ॥३०॥
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy