________________
522
Rajasthan Oriental Research Institute, Jodhpur.
(Jaipur-Collection)
बकुलाभरणं वन्दे जगदाभरणं मुनिम् । यःश्रु तेरुत्तरं भागं चक्रे द्रविडभाषया ॥५॥
नमोऽचिन्त्याद्भुताक्लेष्टज्ञानवैराग्यराशये । नाथयामुनयेऽगाधभगवद्भक्तिसिन्धवे ॥६॥
नमस्यामरविन्दाक्षं नाथभावे व्यवस्थितम् । शुद्धसत्त्वभयं शौरेरवतारमिवापरम् ॥७॥
अनुद्धतक्षमायोगमपुण्यजनबाधकम् । अस्पृष्टमादिशगन्तं रामं तूर्यमुपास्महे ॥८॥
विगाहे यामुनि तीथं साधु वृन्दावने स्थितम् । निरस्तजिह्वगस्पर्श यत्र कृष्णकृतादरः ।।९।। दयानिघ्नं यद्रस्य'"देसकं पूर्णमाश्रये । येन विश्वस्रजो विष्णुरपर्याप्त मनोरथः ।।१०।।
पाखण्डद्र मखण्डदावदहनश्चार्वाकशैलाशनिबौद्धध्वान्त निरासवासरपतिज नेभकण्ठीरवः । मायावादिभुजङ्गभङ्गगरुडस्त्र विद्यचूडामणिः, श्री रङ्गशजयध्वजो विजयतेरामानुजोऽयं मुनिः ॥११॥१२॥ यज्ञमूत्यैकदण्डी च प्रतिवादिभयङ्करः । सनाथयतिराजादजये दण्डान् दधौ मुने ॥१३॥
देवाचार्य महं वन्दे मन्नाथसुरराजकम् । रामानुजपदाम्भोजमकरन्दं पपौ सदा ।।१४।।
भक्तिग्रामोतिभक्त्येव तत्पूर्णेन गतिस्तथा । तया प्राप्तिहरौ यस्य हर्याचार्य इतिस्मृतः ॥१५॥
देवाचार्यपदाश्रित्य रङ्गभूभ्यामुवाससा । भजामि चरणौ तस्य शरणागतशम्प्रदौ ॥१६॥
राघवार्यमहायोगी सर्ववेदकराम्लकः । वेदान्तद्वयकण्ठस्थौ हर्याचार्यप्रसादतः ॥१७॥